________________
२९१
एकोनविंशं मृगापुत्रीयाध्ययनम्
व्याख्या-हे पुत्र ! अब्रह्मचर्यस्य मैथुनस्य विरतिः कर्त्तव्या, सापि दुष्करास्ति, कामभोगरसज्ञेन जनेन उग्रं घोरं ब्रह्मचर्यं महाव्रतं धर्त्तव्यम् । लब्धभोगसुखास्वादस्य भोगेभ्यो निवृत्तिरत्यन्दुष्करेति ॥२९॥
___धणधन्नपेसवग्गेसु, परिग्गहविवज्जणं ।।
सव्वारंभपरिच्चाओ, निम्ममत्तं सुदुक्करं ॥३०॥ व्याख्या-धनधान्यप्रेष्यवर्गेषु परिग्रहविवर्जनं कर्त्तव्यम् , पुनः सर्वारम्भपरित्यागोऽपि कर्त्तव्यः, निर्ममत्वं, न मे कश्चिदस्ति, अहमपि कस्यापि नास्मीति चिन्तनमपि दुष्करमेव, एवं व्रतपञ्चकदुष्करतोक्ता ॥३०॥
चउव्विहे वि आहारे, राईभोयणवज्जणा ।।
संनिहीसंचओ चेव, वज्जेयव्वो सुदुक्करं ॥३१॥ व्याख्या-पुनः श्रामण्ये चतुर्विधेऽप्याहारे रात्रिभोजनस्य वर्जना कार्या च पुनः सन्निधिद्धृतगुडादेरुचितकालातिक्रमेण स्थापनं, ततः सन्निधिश्चासौ सञ्चयश्च सन्निधिसञ्चयो निश्चयेन वर्जितव्यः सोऽपि दुष्करः ॥३१॥
छुहा तण्हा य सीउण्हे, दंसमसगवेयणा ।
अक्कोसा दुक्खसिज्जा य, तणफासाजल्लमेव य ॥३२॥ व्याख्या-पुनः क्षुधा सहनीयेति, तृष्णा च सोढव्या, शीतोष्णं सहनीयं दंशमशकानां वेदना सहनीया, पुनराक्रोशा दुर्वचनानि सहनीयानि, दुःखशय्या उपाश्रयसम्बन्धिदुःखं सहनीयं, संस्तारके तृणस्पर्शदुःखमपि सहनीयं, पुनर्जल्लं मलपरीषहोऽपि सोढव्यः साधुनेति ॥३२॥
तालणा तज्जणा चेव, वहबंधपरीसहा ।
दुक्खं भिक्खायरिया, जायणा य अलाभया ॥३३॥ व्याख्या-पुनस्ताडना कराद्यैस्तर्जना अङ्गलिभ्रमणाद्यैः, पुनर्वधबन्धपरीषहा अपि सहनीयाः, तत्र वधो यष्ट्यादिभिर्हननं, बन्धनं रज्ज्वादिवा बन्धः, पुनर्भिक्षाचर्याया दुःखम् , याञ्चाकरणोद्भवं दु:खम् , चकारोऽनुक्ताऽशेषपरीषहसमुच्चयार्थः, दुःखशब्दश्चेह प्रत्येकं योज्यः, तत्रापि याचनायां कृतायां अलाभता अप्राप्तिरपि भवेत् , तदापि दुःखं न कर्त्तव्यमिति ॥३३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org