________________
हितोपदेशः । ग्रन्थकारस्य प्रशस्तिः ।।
४६९
इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्य-पण्डितश्रीपरमानन्दविरचिते हितोपदेशामृतविवरणे सर्वविरत्याख्यं चतुर्थं मूलद्वारं समाप्तमिति ।। भद्रम् ।।
तत्समाप्तो समाप्तमिदं हितोपदेशविवरणमिति ।।श्रीः।। चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः, प्रभुर्बभूवाभयदेवसूरिः । नवाङ्गवृत्तिच्छलतो यदीय - मद्यापि जागर्ति यशःशरीरम् ।।१।। तस्मान्मुनीन्दुर्जिनवल्लभोऽथ तथा प्रथामाप निजैर्गुणौधैः । विपश्चितां संयमिनां च वर्ग धुरीणता तस्य यथाऽधुनापि ।।२।। तेषामन्वयमण्डनं समभवत् सञ्जीवनं दुःषमामूर्छालस्य मुनिव्रतस्य भवनं निःसीमपुण्यश्रियः । श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणैद्रष्टुं तादृशमाश्रयान्तरमहो दिक्षु क्रमात् क्रम्यते ।।३।। यतिपतिरिह देवभद्रो नामा जयति, तदीयपदावतंस एषः । विषमविषयरोगसन्निपाते दधति रसायनतां वचांसि यस्य ।।४।। समस्तशास्त्राम्बुधिकुम्भजन्मा, कवित्ववक्तृत्वनिरुक्तिकोशः । शिष्यस्तदीयः प्रतिभासमुद्रः, श्रीमान् प्रभानन्दमुनीश्वरोऽस्ति ।।५।। सन्दर्भोऽयं मतस्तेषामनुजेनाल्पमेधसा । तैरिवा[रेवा]नुगृहीतेन परमाता ? [परमानन्दसूरिणा] ।।६।। गुणिनो गुणानुरक्ता गुरुभक्ताः साधवो व्यधुः सर्वे । साहाय्यमत्र शास्त्रे विशेषतो हर्षचन्द्रगणिः ।।७।।
1. मूलप्रतौ तैरिवानुगृहीतेन पाठोऽस्ति, किन्तु 'तैरेवानुगृहीतेन' पाठः सम्यग् भाति । - सम्पा० ।। 2. मूलप्रतौ परमाता इति अशुद्धापूर्णपाठो दृश्यते किन्तु सन्दर्भानुसारेण ‘परमानन्दसूरिणा' पाठः सम्भाव्यते ।
-सम्पा० ।। 3. मूलप्रतौ हर्षगणिः पाठो त्रुटितोऽस्ति, अत्र 'हर्षचन्द्रगणिः' इति पाठो सम्यग् भाति । -सम्पा० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org