________________
४६६
हितोपदेशः । गाथा-५१८, ५१९, ५२० - हितोपदेशप्रकरणार्थरहस्यनिस्यन्दभूतमुपदेशः ।।
ते कुसन्तु नाम कषायाः शाणोत्तीर्णनिशितासिधाराचङ्क्रमणप्रायः खरतरचारित्रनिर्वाह एव निर्वाणं साधयिष्यन्तीति चेत् तदाह -
संतेसु संपराएसु चरियमइदुक्करं पि सामन्नं ।
वावन्नदंसणाण व न होइ सिवसाहयं किं च ।।५१८।। सत्सु विद्यमानेषु संज्वलनाद्यनन्तानुबन्धिपर्यवसानेषु सम्परायेषु कषायेष्वतिदुष्करतरमपि श्रामण्यं चरणं चीर्णं शिवसाधकं निःश्रेयसविश्राणनप्रवणं न भवति । केषामिव ? व्यापनदर्शनानामिव । यथा ह्यभव्यानां ताण्डवितातिदुष्करतरक्रियाकाण्डानामपि भावचरणमन्तरेण नरसुरसुखोत्कर्षसम्प्राप्तिमात्रमेव फलं, न पुनर्महोदयसुखानि, तथान्येषामपि कषायिणां मुमुक्षूणामिति ।।५१८ ।। किञ्चान्यदप्युच्यते -
जं अइदुक्खं लोए जं च सुहं उत्तमं तिहुयणंमि ।
तं जाण कसायाणं वुड्डिक्खयहेउयं सव्वं ।।५१९ ।। आस्तामिह मर्त्यलक्षणे लोके यावत् त्रिभुवनेऽपि जगत्त्रयेऽपि यत् किञ्चिदतिदुःखं दुःखोपनिषद्पं, उत्तमं सर्वोत्कृष्टं सुखं सुखोपनिषद्भूतं, तत् । हे शिष्य ! जानीहि विद्धि । कषायाणां पूर्वोदितानां वृद्धिक्षयहेतु । कषायवृद्धौ हि दुःखोत्कर्षवृद्धिः, कषायक्षये च सुखोत्कर्षोपनिषदिति ।।५१९ ।।
एवं च प्रकरणकृदभिधाय साम्प्रतं सकलप्रकरणार्थरहस्यनिस्यन्दभूतमुपदेशमुपादेयतयाभिधित्सुराह -
तम्हा तह परिचिंतह तह जंपह तह य चिट्ठह सुसमणा ।
जह सपरकिलिसकरो न होइ उदओ कसायाणं ।।५२० ।। यथा कस्मिंश्चिदवश्यविधेये विधेये केनचिदकृत्रिमोपकृतिप्रत्यलेन स्ववाः सादरं सम्भाषणपुरःसरं प्रवर्त्यते तथेहापि सम्बोधनपुरःसरमभिधीयते । हे ! सुश्रमणास्तथा कथञ्चित् असमसमभावभाविते स्वचेतसि परि सामस्त्येन चिन्तयत । तथा च वाक्यशुद्ध्यध्ययनोपदर्शितन्यायेन यूयं जल्पत तथा च संयमयोगानुगतमेव निरवद्यं चेष्टध्वम् । यथैष स्वस्य परेषां
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org