SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ त्रयोदशं चित्र-संभूतीयमध्ययनम् अथेह प्रागध्ययने श्रुतवत् तपस्यपि यत्नः कार्य इत्युक्तम् । तच्च महापायहेतुनिदानपरिहारेणेव शुद्धं स्याद्, एतच्च चित्रसम्भूतोदाहरणेन दर्यत इति सम्बन्धेनायातमिदं त्रयोदशमध्ययनमत्र तावत् तदृष्टान्तः पूर्वमुच्यते । तथाहि पुरमस्तीह साकेतं सङ्केतमिव सम्पदाम् । चन्द्रावतंसकस्तत्र चन्द्रोज्ज्वलयशा नृपः ॥१॥ मुनिचन्द्रश्च तत्पुत्रो निर्विण्णविषयस्पृहः । गुरोः सागरचन्द्रस्य पार्वे व्रतमुपाददे ॥२॥ अन्यदोग्रं तपस्यन् स विहरन् गुरुभिः समम् । ग्रामं प्रविष्टो भिक्षाऽर्थं सार्थभ्रष्टोऽभवद् भ्रमन् ॥३॥ अटव्यां पतितस्तृष्णा-क्षुधाक्लान्तः स संयतः ।। चतुर्भिर्गोपतनयः प्रत्यचार्यशनादिभिः ॥४॥ युग्मम् धर्मं श्रुत्वा मुनेः पाश्र्वाच्चत्वारोऽपि व्रतं ललुः । मललिप्तं मुनि दृष्ट्वा तेषूभौ च जुगुप्सकौ ।।५।। द्वौ चाजुगुप्सको जातौ सम्यक्त्वप्रतिपालनात् । तपोधनानुकम्पातश्चत्वारोऽपि दिवं ययुः ॥६।। युग्मम् तत्राजुगुप्सको ताविषुकारपुरे ततश्च्युतौ । विप्रौ जाताविषुकारीयाध्ययने वक्ष्यामि तच्चरितम् ॥७॥ जुगुप्सको ततो विप्रशाण्डिल्याद् युग्मिनौ सुतौ । दास्यां दशपुरेऽभूतां यशोमत्यां दिवश्च्युतौ ॥८॥ क्रमेण यौवनं प्राप्तौ क्षेत्ररक्षाकृतेऽन्यदा । न्यग्रोधाधः प्रसुप्तौ तौ रजन्यामटवीं गतौ ॥९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy