SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ तृतीयं चतुरङ्गीयाध्ययनम् जीर्णस्तोकपरीशुद्धचेलभोगेऽप्यचेलता । तथा साधीर्यतः प्रोक्तं मूर्च्छाऽभावात् सदप्यसत् ॥ ४४॥ यथा कटीवस्त्रबद्धशिरा मग्नो जले नरः । नग्न इत्युच्यते लोकैर्नाग्न्यमस्ति तथा मुनेः ॥४५॥ अतुल्यधृतिसंस्थाना एकोनज्ञानिनो जिना: । अच्छिद्रपाणिपात्राश्च जिताखिलपरीषहाः ||४६ || व्रतं वस्त्राद्यभावेऽपि धारयेयुस्तथाऽपि ते । मुनीनामम्बराज्ञार्थं व्रतारम्भे सचेलकाः ||४७|| वैद्योपदेशतो रोगी वैद्यवेषमनाचरन् । क्लेशेभ्यो मुच्यते तद्वद् जैनाज्ञाऽऽराधको मुनिः ॥४८॥ योग्यताया अभावेन तन्नेपथ्यादिकं दधत् । प्राप्नोति निन्द्यतां लोकेऽर्हन्तो हि भुवनातिगाः ॥४९॥ जीर्णप्रायोग्यवस्त्राणां निमूर्च्छमुपभोगतः । अन्यथा परिभोगाद् वा विद्धि साधूनचेलकान् ॥५०॥ इति प्रज्ञापितोऽप्येष मिथ्यात्वोदयतः कुधीः । उपाश्रयाद् विनिर्यातस्त्यक्तवेषः पिशाचवत् ॥५१॥ उत्तराऽऽख्या स्वसा तस्य साध्वी श्रुत्वैतदद्भुतम् । तमुद्यानगतं नन्तुं गता भ्रातृमतानुगा ॥५२॥ त्यक्त्वाऽम्बराणि सर्वाणि भिक्षाऽर्थमविशत् पुरे । ददृशे वेश्यया तादृग्बीभत्साकारधारिणी ॥५३॥ मैनां दृष्ट्वा विरक्तोऽभूद् लोकोऽस्मास्विति बुद्धितः । तया चीवरमक्षेपि तस्याः शिरसि दक्षया ॥५४॥ तुभ्यं देवतया दत्तमिति सोदरवाक्यतः । सा पर्यधात् ततो वस्त्रं शिवभूतिस्त्वनम्बरः ॥५५॥ कोडिन्यकोष्ठवीराख्यावभूतां तद्विनेयकौ । ततः परम्पराख्यातमभूद् विस्तारि तन्मतम् ॥५६॥ एवं केऽपि भवाब्धितारणतरीं प्राप्यापि बोधि परां, मिथ्यात्वोदयतः कदाग्रहधियस्तां नाशयन्ति क्षणात । For Private & Personal Use Only Jain Education International 2010_02 १९७ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy