________________
२५२
संमतितर्कप्रकरणे
शब्द:
व्याख्या अहेतुवादागमः प्रमाणान्तरानवगतवस्तुप्रतिपादक आगमोऽहेतुवाद: । ३/४३ आगममलारहृदयः । मलमिव आरा प्राजनकविभागो यस्यासौ मलारो गौर्गली, आगमे तद्वत् कुण्ठं हृदयं
यस्य-तदर्थप्रतिपत्त्यसामर्थ्यात् - असौ तथा मन्दधीः । १/२ उच्छेदः
उत्पत्त्यनन्तरनिरन्वयध्वंसलक्षणः । १/१७ उपगतानाम् 'उप' इति कालसामीप्येन गतानां प्राप्तानाम्, यद्वा प्रकर्षेण गतानाम्, यद्वा
प्रकर्षेण अपुनरावृत्त्या गतानाम्, यद्वा 'उप' इति सकलकर्मक्षयानन्तरमव्यवधानेन गतानां प्राप्तानाम् - शैलेश्यवस्थाचरमसमयोपादेयभूतमनन्तसुखस्वभावमात्मनः
कथञ्चिदनन्यभूतं स्वरूप प्राप्तानामिति यावत् । १/१ ऋजुसूत्रः देश-कालान्तरसम्बद्धस्वभावरहितं वस्तुतत्त्वं साम्प्रतिकम् एकस्वभावम्
अकुटिलम् ऋजु सूत्रयतीति ऋजुसूत्रः । १/३ ऋजुसूत्रवचनम् ऋजु-वर्त्तमानसमयं वस्तु स्वरूपावस्थितत्वात् तदेव सूत्रयति परिच्छिनत्ति
नातीतऽनागतम्, तस्याऽसत्त्वेन कुटिलत्वात् तस्य वचनम् - पदं - वाक्यं वा । १/५ कर्म
अदृष्टम् । १/१९ कालम्
युगपदयुगपञ्चिरक्षिप्रप्रत्ययलिङ्गलक्षणं वर्तनात्मकं वा नव-पुराणादिलक्षणम् ।
३/६० कुलम्
प्रतिनियतपुरुषजन्यत्वम् । १/४५ कुसमयविशासनम् कुत्सिताः प्रमाणबाधितैकान्तस्वरूपार्थप्रतिपादकत्वेन, समयाः
कपिलादिप्रणीतसिद्धान्ताः तेषाम् दृष्टेष्टविषये विरोधाद्युद्भावकत्वेन विशासनं
विध्वंसकम् । १/१ क्रिया
क्रियते इति क्रिया यथोक्तानुष्ठानम् । ३/६८ क्षेत्रम
स्वारम्भकावयवस्वरूपम् तदाश्रयं वाऽऽकाशम् । ३/६० गुणः
अनेकरूपतया वस्तुनः करणं करोतेर्ज्ञानार्थत्वात् ज्ञानम् विषयविषयिणोरभेदादेव
गुणः । ३/१२ चक्षुदर्शनम् अस्पृष्टेऽर्थरूपे चक्षुषा य उदेति प्रत्ययः स चक्षुर्दर्शनं ज्ञानमेव सत् । २/२५ जातिः
पुरुषत्वादिका । १/४५ जिनाः
रागद्वेषमोहलक्षणान् शत्रून् जितवन्त इति जिनाः । १/१ जिनोपदेशः द्वादशाङ्गप्रवचनः । ३/२६
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org