SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 5 15 20 जयन्ती प्रकरणवृत्तिः । गाथा १४ । १५ । १६ १७ १८ व्याख्या-प्रतिमादीनां योग्या बहवो गोशीर्षचन्दनद्रुमादयः सन्ति । अयोग्या अपि एरण्डभिण्ड्यादयः ॥ किं पुण जा संपत्ती सा नियमा होइ जोग्गरुक्खाणं । न य होइ अजोग्गाणं एमेव य भव्वसिज्झणया ॥१५॥ इति सूत्रम् ॥ व्याख्या-किं पुनः या सम्पत्तिः सा नियमात् भवति योग्यवृक्षाणां । न 10 भवत्ययोग्यानां, एवमेव च भव्यसिद्धिरपि ॥ पुनरपि मनोमन्दिराभ्यन्तरप्रस्तुतसंशयान्धकारपरीहारप्रदीपकलिकायमानं विचारान्तरमाह भगवान् ॥ 25 ३३२ न य पुण पडिमुप्पायणसंपत्ती होइ सव्वजोगाणं । तेसि पि असम्पत्ती न य तेसिमजोग्गया होई ॥१४॥ इति सूत्रम् ॥ व्याख्या- न च पुनः प्रतिमोत्पादनसम्प्राप्तिर्भवति सर्वयोग्यानां, . येषामप्यसम्पत्तिः, न च तेषामऽयोग्यता भवति ॥ अहवा पडुच्चकालं न सव्वभव्वाण होइ विच्छिती । जं तीयणागयाओ अद्धाओ दो वि तुल्लाओ ॥ १६ ॥ इति सूत्रम् ॥ व्याख्या - अथवा प्रतीत्य कालं न सर्वभव्यानां लोके भवति व्यवच्छित्तिः । यदऽतीतानागते अद्धे द्वे अपि तुल्ये ॥ तत्रातीताद्धायां सिद्ध एको अनन्तभाग एषां कामं सेत्स्यत्येतावानेवाऽनागताद्धायां, तौ द्वावप्यनन्तभागौ भूत्वा स एवानन्तभाग एषां, एवमपि न सर्वभव्यानां सिद्धिगमनं विनिर्दिष्टम् । सूत्रगाथे द्वे यथा तत्थाsssअद्धा सिद्धो एगो अनंतभागो सिं । कामं तावइउ च्चिय सिज्झिही अणागयद्धाए ॥१७॥ ते दो अणन्तभागा होउं समुच्चियअणन्तभागो सिं । एवं पि सव्वभव्वाण सिद्धिगमणं न निदिट्टं ॥ १८ ॥ व्याख्याते एते गाथे, अस्मिश्चार्थे आचार्यबप्पभट्टिप्रतिबोधितवाक्पतिराजेन जिनशासनानुरागपरीक्षाहेतवे कृते सति प्रश्ने प्रत्यूत्तरदानमपि स्थूलव्यवहारेण अवतरति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002561
Book TitleJayantiprakaranvrutti
Original Sutra AuthorMalayprabhsuri
AuthorChandanbalashreeji
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages462
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy