SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ जयन्तीप्रकरणवृत्तिः । गाथा ८।९।१०।११।१२।१३ ३३१ ततश्च सूत्रम् भवसिद्धिया भंते ! जइ सिज्झिस्संति तो भव लोओ। भवसिद्धिएहि रहिओ, न भवइ स जयंति ! नायाओ ॥८॥ व्याख्या-भवसिद्धिका भगवन् ! यदि सेत्स्यन्ति, ततो भवसिद्धिकैः रहित एव लोकः कदाचित् भविष्यति ?, भगवांश्च प्राह-न भवति स जयन्ति ? ज्ञातता ॥ 5 तथाहि-सूत्रम् सयलागासपएसा सेढी परमाणुमित्तखंडेहिं । समए समए हीरइ अणंतउस्सप्पिणीकालं ॥९॥ नो चेव अवहिया जह एवं भव्वा वि नेव निट्ठन्ति । न वि सिज्झिहिंति तो भण किन्नु भव्वत्तणं ? ॥१०॥ 10 व्याख्या-सकलाकाशप्रदेशश्रेणी परमाणुमात्रखण्डै: समये समये अपहियमाणापि अनन्तोत्सर्पिणीकालं यावत् नैवैषा अपहृता भवति । एवं भव्या अपि सिध्यन्तोऽपि नैव निष्ठां यान्ति । केचिच्च भव्या अपि न सेत्स्यंते एव । एवमपि भगवतोक्ते सा पुनरप्यऽप्राक्षीत् । किं नु भव्यत्वं तेषां ? ॥ सूत्रं चात्र जइ होऊणं भव्वा वि केइ सिद्धिं न चेव गच्छन्ति । 15 एवं तेऽवि अभव्वा को व विसेसो भवे तेसिं ? ॥११॥ व्याख्या-यदि भूत्वा भव्या अपि केचित् सिद्धिं न चैव गच्छन्ति, एवं तेप्यभव्याः, को वा विशेषो भवेत्तेषां ? ॥ इतिप्रश्ने पुनर्भगवान् संशयान्धकारतिरस्कारतरणिमण्डलायमानं सदृष्टान्तं विचारमाह 20 भन्नइ भव्वो जोग्गो दारुदलिय त्ति वावि पज्जाया । जोग्गो वि पुण न सिज्जइ कोइ रुक्खाइदिट्ठन्ता ॥१२॥ इति सूत्रम् ॥ व्याख्या-भण्यते भव्यो योग्यो, यथा दारुदलिकमिति वा पर्यायाः । योग्योऽपि पुनर्न सिध्यति कोऽपि वृक्षादिदृष्टान्तात् ॥ पडिमाईणं जोग्गा बहवो गोसीसचन्दणदुमाई । संति अजोग्गावि इहं अन्ने एरण्डभिण्डाइ ॥१३॥ इति सूत्रम् ॥ 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002561
Book TitleJayantiprakaranvrutti
Original Sutra AuthorMalayprabhsuri
AuthorChandanbalashreeji
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages462
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy