________________
३१८
जयन्तीप्रकरणवृत्तिः । गाथा ४।५।६ अणुभविऊणं सुइरं रुद्दज्झाणेण दुग्गई पत्तो । कूडतवस्सी मायामोसणं पावट्ठाणेणं ॥१७॥ इहलोयकडा कम्मा उग्गा इह चेव दुक्खमुवणिन्ति । जह हुन्ति के वि तरुणो फलया तव्वरिसिया चेव ॥१८॥ पुन्नं पि उक्कडेणं भावेण समज्जियं हवइ फलयं । रज्जं सुपत्तदाणा पत्तं जह मूलदेवेणं ॥१९॥ तो सुकयदुक्कयाणं नाउं फलमुक्कडाणमिह चेव । सुकयं चिय कायव्वं भव्वे माणुस्सए जम्मे ॥२०॥ जं दुलहो सुकुलोग्गममाणुसजम्मो जयम्मि जीवाण । तम्हा पावट्ठाणं सव्वं हेयं पयत्तेणं ॥२१॥
मायामृषावादपापस्थानम् ॥
10
88 अनादिकालप्ररूढव्यूढकन्द इव संसारवल्लीवितानस्य, प्रचण्डपवनप्रेर्यमाणत्वक्सारवारपरस्परसङ्घर्षसमुच्छलितदावानलज्वालाकलाप इव परिपचेलिमागण्यपुण्यो
पलभ्यस्वभावस्वर्गापवर्गशर्मसम्पत्तिफलदायिसम्यग्दर्शनोद्यानस्य, विधन्तुद इव यथा15 वस्थिवस्तुतत्त्वबोधौषधीशमण्डलस्य, क्षमाधरप्रसारितसत्पक्षछेदकतयाऽवतार इवाऽऽ
खण्डलस्य, देवगुरुप्रतिकूलप्रतिपत्तितः शुक्रबान्धव इव, पुण्यपात्रदानवारित्वतः पुनर्माधव इव, केसरिकिशोर इव मार्गप्रतिघातस्य, प्रदोष इव प्रतिकलसमुच्छलद्बहलतमसङ्घातस्य, हेतुरिवाऽविकलः संसारपारावारस्य, कारणमिव प्रथमं विपर्यासस्य, मिथ्यादर्शन
परिणामोऽपि महापापस्थानमिति, सति हि तस्मिन् प्राणीनां मनसि वाससीव तीव्रतरप्रथम20 कषायाभिषङ्गतः सम्पद्यते न सम्यग्गुरुभक्तिरङ्गः, प्रादुर्भवति कृष्णलेश्यानुषङ्गः दूरीभवति
सुगुरुसंसर्गः, तदुदये कथमपि प्राप्तायाः सर्वविरतेर्भवति भङ्गः, प्रवर्तते रौद्रध्यानं, कण्डरीकमुनिरिव प्राप्यते नरकस्थानम् । तथाहि
अवरविदेहे पुंडरिगिणी पुरी तत्थ पयडियपयावो । रायासि पुण्डरीओ रिउकुलकन्तारघणदावो ॥१॥ कण्डरीओ लहुभाया जुवराया रूवसंपया कामो । नवजुव्वणाभिरामो तस्साऽऽसी जणमणारामो ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org