________________
२६२
जयन्तीप्रकरणवृत्तिः । गाथा ४।५।६ तप्पच्चयपावेणं भमइ कुजोणीसु दुक्खलक्खाइं । मरणसमुग्घाएणं लहइ दुरन्तेण पुणरुत्तं ॥८२॥ माणुस्सजम्मरयणं सुकुलखेत्ताइसंजुयं कहवि । लद्धं हारइ जीवो अणज्जकज्जेण रागेण ॥८३॥ तम्हा एसो रागो नागो इव जिणवरस्स वयणेण । मन्तेण निहायदप्पो कायव्वो अप्पमत्तेहिं" ॥८४॥ इच्चाइदेसणाए पडिबुद्धा वन्तरी तओ झत्ति । रागद्देसविसाणं पसमणपीउसधाराए ॥८५॥ काउं दुक्कडगरिहं सुगुरूणं पायपउममूलम्मि । गिन्हइ सा संमत्तं खामइ साहुं अरिहमित्तं ॥८६।। धन्नो सि तुमं मुणिवर ! अखंडचारित्तजाणवत्तेण । मइ रायसायराओ विग्धं जं तं समुत्तिन्नो ॥८७॥ पसंसिऊणं दुल्लहसंमत्तरयणलाहेण । सा वन्तरी पहिट्ठा जहागयं पडिगया झत्ति ॥८८।।
रागाख्यानकं समाप्तम् ॥
10
15
तथा द्वेषो पि महीयः पापस्थानं, यतोऽसौ दोषाकरः शशीव प्रपञ्चितकलाकलापेऽप्यखण्डवृत्ते तथात्मनि कुरङ्गकलङ्कमावहति, प्रभूतसत्त्वे समुद्रेऽपि समुच्छलितोत्कलिकाकुलाननेकप्रकारान् क्षारोद्गारान् समुल्लासयति प्रतिक्षणम्, ततः सर्वतः
प्रसरन्ति प्रतिकूलमेव दुरवगाहाः सरस्वतीप्रवाहाः, तैश्च निरुध्यते मार्गे गमनप्रवृत्तिः 20 निरुद्धया चानया जायते कालविलम्बः, तेन च सीदन्ति कार्याणि, ततश्च लब्धेन्धनो
ज्वलति क्रोधधूमध्वजः, स्फुरति च ततो धूम्यायमानो मिथ्याभिमानो, विजृम्भते च ज्वालावली कराला, धर्मरुचेर्मुनेरिवाशु दाहिकाऽकस्मात् तेजोलेश्या, दह्यते तया परापरजीवाश्वासकारिणी पुण्याङ्कुरवती क्षमा, प्ररोहति ततो दर्भशुचिश्रेणिरिव प्रतिपदं व्यथाहेतुवैरानुबन्धपरम्परा नाविकनन्दस्येव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org