________________
___ २५५
२५५
जयन्तीप्रकरणवृत्तिः । गाथा ४।५।६
सम्बुद्धाणं ताणं जाइसरणेण गहियचरणाणं । कम्माणं निज्जरणे उप्पन्नं केवलं नाणं ॥७५॥ मोहमहिनाहजोहं लोहं जिणिऊण कविलमुणिराओ । लंघियविसयग्गामो कमेण गच्छइ पुरि सिद्धिं ॥७६।।
लोभे कपिलाख्यानकं समाप्तम् ॥
5
रागो पि प्रेमानुबन्धः अपरपर्यायः, कारयति अनार्यचर्यां प्राणिनः । तथाहिपल्लवयति असौ विपर्यासविज्ञानं, ततो अभिमन्यन्ते तरुणमनुष्याः प्रभूताशुचिकूपिका अपि शृङ्गाररसापूर्णाशातकुम्भकुम्भिकाः प्रगल्भयौवनाः अङ्गनाः तासां च प्रसरदूषिकाकमले दोषदुष्टे अपि प्रशंसन्ति प्रबुद्धनीलोत्पलसगोत्रे नेत्रे, विचारयन्ति चास्थिपञ्जरमानं शरीरं पूतिश्लेष्मोद्गारपात्रमप्यसामान्यं, प्रवाञ्छति पार्वणचन्द्रवदास्यं अपवित्रा- 10 स्थिभूतदन्तश्रेणिरपि कुन्दकलिकोज्ज्वलस्निग्धद्विजावलीवोच्छलत्किरणकुरुलीभिः प्रहसतीव मुक्तावली, अशुचिमन्दिरोदरविनिःसृतरसापूर्णोऽपि प्रतिभाति शृङ्गाररससागरे प्रवालबन्धुरश्चाधरः, वर्णयन्ति च भ्रान्ताश्चान्द्रद्रवकान्तिकान्तत्वग्बन्धोद्धरौ प्रपञ्चितमांसमेदग्रन्थी अपि स्तनावानन्दको रतिप्रीत्योः क्रीडाकन्दुकौ, तदनेन प्रकारेण प्रत्यवयवं स्त्रिगाढेष्वन्तरशुचिमयत्वेऽप्यऽपरापरप्रशस्तपदार्थोपमानव्यामोहतः प्रवर्तन्ते रागान्धाः 15 प्रकटनरकद्वारेषु परदारेषु, लभन्ते च न्यत्कारं, प्राप्नुवन्ति सर्वस्वापहारं, श्रयन्ति प्राणापहारं, अनुभवन्ति च प्रायः प्रतिजन्म पण्डकत्वेन दुःखसम्भारम्, किञ्च-तीव्रानुरागा पुरन्ध्योऽपि न्यत्कृत्य कुलक्रमं पुरस्कृत्य स्वमनोभ्रमं विस्मृत्य स्वभर्तुः प्रीतिसङ्क्रम कुर्वन्ति परपुरुषसङ्गमम्, अन्यच्च-रागनागदष्टतया कारुण्यतो भ्रष्टतया दुर्गतिगमनं प्रति भयस्य नष्टतया चेतसोऽतिक्लिष्टतया कारणं श्रृङ्गारस्य, पूरणमलङ्कारस्य, हेतुं 20 श्लाघ्यविषयोपचारस्य, सेतुं व्यसनार्णवनिस्तारस्य, सविश्रब्धं स्वपतिमप्युपघ्नन्ति श्रीकान्तेव ॥ तद्यथा
जंबुद्दीवे भरहे मज्झिमखण्डम्मि दाहिणे आसि । खिइपयट्ठियनयरे राया नामेण जियसत्तू ॥१॥ अवगयजिणमयतत्तो गुरुपयभत्तो गुणज्जणासत्तो ।
25 निम्मलसम्मदिट्ठी तत्थासि धणेसरो सिट्ठी ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org