________________
जयन्तप्रकरणवृत्तिः । गाथा ४|५|६
२४९
§§ लोभोऽपि महापापस्थानमित्युपदिशन्ति सन्तः, स हि पिशाच इव प्रणयमागतः संहरति शौचं, त्याजयत्यायत्यालोचं, तथासौ समस्तार्थसर्गसंहारर्भर्गः, समुत्पादितसर्वव्यसनवर्गसंसर्गः, को हि प्राणी प्राप्नोति तन्मुखान्तर्गतः सन् दुःखान्तरं ?, को वा तदाश्रयः समाश्रयति सुखं ? निरन्तरं ।
तदुक्तं
44
'सर्वविनाशाश्रयिणः सर्वव्यवसनैकराजमार्गस्य ।
लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ?" ॥१॥ [प्रशम. / श्लो. २९ ]
लोभान्धा हि प्राणिनः पश्यन्ति न सन्मार्गम्, स्खलन्ति सदा चरणक्रियायां पदे पदे, प्रपतन्ति उन्मार्गप्रपन्नाः प्रसृततमः प्रपञ्चान्धे भवान्धौ, पापपङ्कान्तर्गताश्चात्र प्रभूतकालमनुभवन्ति निरन्तरं दुःखानि । अन्यच्चायं - लोभाम्भोधेर्दुः पुरोदरतामात्मन्यादधानः 10 प्रकटयति क्षारोद्गारं दधात्यन्तः क्रोधं वडवानलानुकारं, उल्लासयति अनवरत - मुत्कलिकाः, प्रवर्तयति अविरतमावर्तवलिकाः, स हि अतिशायिगुणघटोदयेन कपिलमुनीन्द्रेणेवाऽभ्यर्णकेवलज्ञानसम्पदा प्राणिना सविशेषसन्तोषपोषपियूषचुलुकपानतः शोषमानीयते यदि परम् ।
तथाहि
ss आसि पुरा कोसम्बी नयरी सुररायपुरवरी रम्मा । तीए रायपुरोहियजसोयभज्जासुओ कविलो ||१||
लहुयस्स वि तस्स पिया, पत्तो पंचत्तमह निवो अन्न । संतिकिरियासु कुसलं पुरोहियं ठाव विप्पं ॥२॥ तं अन्नदिणे पिच्छइ रिद्धीए रायमग्गमोइन्नं । बहुसेवगसंकिन्नं पसरियसोया जसोया सा ||३|| रोयइ करुणसरेणं मुत्ताहलनिम्मलाणि अंसूणि । मुयमाणी कविलेणं किं रोयसि ? पुच्छिया तत्तो ||४|| सा जम्पइ एत्थ पुरा पुरोहिओ आसि वच्छ ! तुह जणओ । सो एवं रिद्धी गच्छन्तो रायमग्गेण ॥५॥
एएण कारणं पुत्ता रोएमि मन्दपुन्नाऽहं । पुच्छइ कविलो रन्ना जणयपयं कहं नो दिन्नं मे ? ॥६॥
१. शिवः ।
Jain Education International 2010_02
5
For Private & Personal Use Only
15
20
25
www.jainelibrary.org