________________
ध्यानशतकम्, गाथा-९९, १००, १०१
१५८ Parararararararararararararararatalarakararararakarakararurariantaritants
तह० गाहा ।। तथा शोध्यादिसमर्था जीवाऽम्बर-लोह-मेदिनीगतानां ध्यानमेव जलाऽनल-सूर्याः कमैव मल-कलङ्ग-पङ्कास्तेषामिति गाथार्थः ।।९८ ।। किञ्च -
तावो सोसो भेओ जोगाणं झाणओ जहा निययं ।
तह ताव-सोस-भेया कम्मस्स वि झाइणो नियमा ।।९९।। तावो० गाहा ।। तापः शोषो भेदो योगानां ध्यानतो ध्यानाद् यथा नियतम् अवश्यम्, तत्र तापो दुःखम्, तत एव शोषो दौर्बल्यम्, तत एव भेदो विदारणम्, योगानां वागादीनाम्, तथा तेनैव प्रकारेण ताप-शोष-भेदाः कर्मणोऽपि भवन्ति, कस्य ? ध्यायिनो न यदृच्छया नियमेनेति गाथार्थः ।।१९।। किञ्च -
जह रोगासयसमणं विसोसण-विरेयणोसहविहीहिं ।
तह कम्मामयसमणं झाणाणसणाइजोगेहिं ।।१००।। जह० गाहा ॥ यथा रोगाशयशमनम् रोगनिदानचिकित्सा, विशोषणविरेचनौषधविधिभिः अभोजन- विरेकोषधप्रकारैः, तथा कर्मामयशमनम् कर्मरोगचिकित्सा ध्यानानशनादिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथार्थः ।।१०० ।।। किञ्च -
जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहइ ।
तह कम्मिंधणममियं खणेण झाणाणलो डहइ ।।१०१।। जह० गाहा ।। यथा चिरसञ्चितं प्रभूतकालसञ्चितम् इन्धनं काष्ठादि अनल: अग्निः पवनसहितो वायुसमन्वितो द्रुतं शीघ्रं दहति भस्मीकरोति, तथा दुःख-तापहेतुत्वात् कर्मैवेन्धनम् कर्मेन्धनम् अमितम् अनेकभवोपात्तमनन्तम्, क्षणेन समयेन ध्यानमनल इव ध्यानानलः असौ दहति अकर्मीकरोतीति गाथार्थः ।।१०१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org