SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ १४८ ध्यानशतकम्, गाथा-८३ Padararanatalatarakarararamatatatatatatatakarakararararararararararararaa पढम. गाहा ।। प्रथमम् पृथक्त्ववितर्कसविचारं योगे मनआदौ योगेषु वा सर्वेषु मतम् इष्टम्, तच्चागमिकश्रुतपाठिनः। द्वितीयम् एकत्ववितर्कमविचारमेतदेकयोग एव, अन्यतरस्मिन् संक्रमाभावात्। तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे । शुक्लम् अयोगिनि च शैलेशीकेवलिनि चतुर्थम् व्युपरतक्रियाऽप्रतिपातीति गाथार्थः ।।८३।। आह - शुक्लध्यानोपरिमभेदद्वये मनो नास्ति, अमनस्कत्वात् केवलिनः, ध्यानं च मनोविशेषः, “ध्यै चिन्तायाम्” इति पाठात्, तदेतत्कथमिति ? उच्यते - वृ. तदेकत्ववितर्काख्यं, श्रुतज्ञानोपयोगवत् ।। ४ ।। सूक्ष्मकायक्रियारुद्ध-सूक्ष्मवाङ्मनसक्रियः । यद् ध्यायति तदप्युक्तं सूक्ष्ममप्रतिपाति च ।। ५ ।। कायिकी च यदेषाऽपि, सूक्ष्मोपरमति क्रिया । अनिवति तदप्युक्तं, ध्यानं व्युपरतक्रियम् ।। ६ ।।" ।। ४३।। - तत्त्वार्थ. सिद्ध. वृत्तौ ।। C अव. चतुर्ध्वपि योगसङ्ख्यां निरूपयति एक-त्रियोगभाजामाद्यं स्यादपरमेकयोगानाम् । तनुयोगिनां तृतीयं निर्योगानां चतुर्थं तु ।। १० ।। आद्यं पृथक्त्ववितर्क सविचारं मनःप्रभृत्येकयोगभाजां योगत्रयभाजां वा, तञ्च भङ्गिकश्रुतपाठकानां भवति । अपरमेकत्ववितर्कमविचारं मनःप्रभृत्यन्यतरैकयोगानाम्, योगान्तरे संक्रमाभावात् । तृतीयं सूक्ष्मक्रियमनिवर्ति, तत् तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे । चतुर्थं व्युत्सन्नक्रियमप्रतिपाति निर्योगानामयोगिकेवलिनां शैलेशीगतानां भवति । योगस्तु कायवाग्मनोभेदात् त्रिविधः । तत्रौदारिक-वैक्रिया-ऽऽहारक-तैजस-कार्मणशरीरवतो जीवस्य वीर्यपरिणतिविशेषः काययोगः । औदारिक-वैक्रिया-ऽऽहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः। औदारिक-वैक्रिया-ऽऽहारकशरीरव्यापाराहतमनोद्रव्यसमहसाचिव्याज्जीवव्यापारो मनोयोगः ।। १० ।। -योगशास्त्रे, प्र. ११ ।। D तत्र त्रियोगिनामाद्यं, द्वितीयं त्वेकयोगिनाम् । सर्वज्ञः क्षीणकर्मासौ, केवलज्ञानभास्करः ।। १९९ ।। अन्तर्मुहूर्तशेषायु-स्तृतीयं ध्यातुमर्हति । शैलेशीकर्मतो ध्यानं, समुच्छिन्नक्रियं भवेत् ।। २०० ।। अयोगयोगिनां तुर्य, विज्ञेयं परमात्मनाम् । तेन ते निर्मला जाताः, निष्कलङ्का निरामयाः ।। २०१ ।। -ध्यानदीपिकायाम् ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy