SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 10 15 व्याख्या- 'तेसिं' त्ति प्राकृतत्वात् तयो:- साधुगृहिधर्म्मयोर्मूलमिव मूलं 5 आधारभूतत्वात् कस्येव ?, तरोरिव, किं ? सम्यक्त्वं तच्च किंस्वरूपमित्याहयदिह भव्यानां देवताधर्म्ममार्गसुश्रमणतत्त्वेषु श्रद्दधानं तत्र देवतादीनां पञ्चानां " लेशतः स्वरूपमुच्यते, तद्यथा 20 २१६ 25 तयोः किम्मूलमित्याह - मूलं तेसिं तरुस्स व, सम्मत्तं जमिह होइ भव्वाणं । सहणं देवयधम्म- मग्गसुस्समणतत्तेसु ॥४१॥ " Jain Education International 2010_02 श्रीधर्मविधिप्रकरणम् " , सर्वज्ञो जितरागादि - दोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ १ ॥ [ यो. शा. / ६० ] ये स्त्रीशस्त्राक्षसूत्रादि - रागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये ॥२॥ [ यो.शा./६२ ] दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥३॥ [ यो.शा. / ६७ ] मिथ्यादृष्टिभिराम्नातो, हिंसाद्यैः कलुषीकृतः । स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥४॥ [ यो. शा. / ६९ ] देवार्चासद्गुरूपास्ति - जीवरक्षादिकाः क्रियाः । सम्यक्विधानमेतासामेष मार्गोऽपवर्गदः ॥५॥ [] स्वबुद्धिकल्पितानेक-कुग्राहग्रस्तचेतसाम् । या प्रवृत्तिर्नृणां स स्यादमार्गे दुर्गतिप्रदः ॥६॥ [] महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥७॥ [ यो.शा./ ६४ ] सर्वाभिलाषिणः सर्व-भोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥८॥ [ यो. शा. / ६५ ] जीवाजीव तथा पुण्य-मपुण्याश्रवसंवराः । निर्जरा बन्धमोक्षौ च, तत्त्वानीति नवाभ्यधुः ॥ ९ ॥ [] एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । इत्यादिकमतत्त्वं स्यात्, प्रमाणान्तरबाधितम् ॥१०॥ [] एतेषु यत् सम्यक् श्रद्धानं तत्सम्यक्त्वमिति भावार्थः ॥ ४१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy