________________
शत्रुञ्जयतीर्थोद्धारप्रबन्धे
९५ श्रीस्तम्भतीर्थादथ पाठकेन्द्राः सुसाधुसाध्वीपरिवारयुक्ताः । . उद्दिश्य यात्रां विमलाचलस्य तत्रैयरुः प्रीणितसाधुवर्गाः ॥८॥ गुर्वागमनात्प्रीतिं करमः परमां दधे विशुद्धमतिः । द्विगुणीभूतोत्साहो मङ्गलकृत्यानि विदधे च ॥८१॥ अथ समरादिगोष्ठिकवर्गान् पाठकवराः समाकार्य । श्रीवस्तुपालसचिवानीतदले याचयामासुः ॥८२॥ तानुपास्य करमो गुरोगिरा प्रार्थिताधिकधनार्पणादिना । ते दले हि समुपाददे मुदाऽन्यान्यपि स्वककुटुम्बहेतवे ॥८३॥ विवेकतो मण्डनधीरसंज्ञौ शिष्यौ क्रमात्पाठकपण्डितौ हि । पूज्यौनियुक्तावथ सूत्रधारशिक्षाविधौ वास्तुसुशास्त्रविज्ञौ ॥८४॥ शुद्धान्नपानानयनादिकार्ये शिष्याः क्षमाधीरमुखा नियुक्ताः । भूयांस आनन्दपराः परे तु षष्ठाष्टमादीनि तपांसि तेनुः ॥८५॥ रत्नसागरसंज्ञस्य जयमण्डनकस्य च । षाण्मासिकतपोनन्दिर्जज्ञे शासननन्दिकृत् ॥८६॥ व्यन्तरादिकृतान् घोरानुपसर्गाननेकशः । पाठकाः शमयामासुः सिद्धचक्रस्मृतेः क्षणात् ॥८७॥ तपोजपक्रियाध्यानाध्ययनादिक्रयाणकैः ॥ अर्जयन्तो भूरिलाभं तेऽशुभन् धर्मसार्थपाः ॥८८॥ सुखासिकाभिर्विविधाभिराशु भोज्यैश्च साज्यैः ससितैः पयोभिः । स सूत्रधारान् करमोऽपि नित्यमावर्जयामास वदान्यधुर्यः ॥८९॥ शतशः सूत्रधारास्ते यद्यदीषुर्यदा यदा । तत्तदानीतमेवाग्रेऽपश्यं श्रीकर्मसाधुना ॥१०॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org