________________
८७
शत्रुञ्जयतीर्थोद्धारप्रबन्धे
॥ अथ द्वितीय उल्लासः ॥ श्रेयोवनितालिकः प्रमदवनोल्लासने च वारिधरः । प्रथयतु मङ्गलमालां पार्श्वस्त्रैलोक्यजनमहितः ॥१॥ इतश्चश्रीवनराजस्थापितपत्तननगरेऽत्र गूर्जरात्रायाम् । चापोत्कटवरवंशे राजानो विदितकीर्तयोऽभूवन् ॥२॥ छत्राधीशा बलिनो वन-योग-क्षेमराजनामानः । भूयड-वज्रौ रत्नादित्यः सामन्तसिंहश्च ॥३॥ अथ चोलुक्यसुवंशे राजानो मूलराज-चामुण्डौ । वल्लभ-दुर्लभ-भीमाः कर्णो जयसिंह - कुमरनृपौ ॥४॥ 'भूनेताऽजयपालो लघुक्रमान्मूल-भीम-भूपालौ । अथ वाघेलकवंश्यास्तत्राद्यो वीरधवलनृपः१९ ॥५॥ वीसला-र्जुन-सारङ्गदेवा ग्रथिलकर्णकः२२ । सप्ताऽक्षत्रीन्दुवर्षेषु १३५७ पत्तने यावनी स्थितिः ॥६॥ शरयुगनयनसुधाकर १२४५ मितेषु वर्षेषु विक्रमादिल्ली । लब्धा यवननरेशैः क्रमशस्तेऽमी महावीर्याः ॥७॥ महिमद - साञ्जर साही तदनु नृपौ मोज- कुतुबै- दीनाहौ । साहब - रुकम-दीनौ सप्तमपट्टे जूआं बीबी ॥८॥ मोजंदीनो-ऽलावंदीनो वृद्धो नसरतो नृपः । ग्यास - मोज - समस्दीना जलालदीनो भूधवः ॥९॥
* क्वचिदजयपालपट्टे त्रिभुवनपालो लिखितोऽस्ति स तु वीरधवलपुरोहितसोमेश्वरकृत-कीर्तिकौमुदीकाव्ये न गणित इत्युपेक्षितः ।
स
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org