SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ शत्रुञ्जयतीर्थोद्धारप्रबन्धे प्रासादा: परमेष्ठिनां रणरणद्घण्टाप्रतिच्छन्दिनः स्फूर्जद्धैमनकुम्भसङ्गतमहादण्डध्वजोल्लासिनः । दूराद्दृक्पथमागताः कलिमलप्रक्षालनं तन्वते शालाः संयमिनां च यत्र मधुरस्वाध्यायघोषोज्ज्वलाः ॥२३॥ युवमनोमृगबन्धनवागुरा स्मरमहीक्षिदमोघशरासनम् । नयनपातनिपातितविष्टपो लसति यत्र वधूगण उन्मदः ॥ २४ ॥ वपुः श्रिया धिक्कृतमीनकेतना वनीपकेभ्यः प्रवितीर्णवेतनाः । विभान्ति यत्राप्तजयन्तवैभवा युवान उच्चैरधिरूढसैन्धवाः ॥ २५ ॥ यत्राभिसारिणीनामसिते पक्षेऽपि नेहितैः फलितम् । स्फाटिकसौधप्रग्रहविघटितभूच्छायनिकुरम्बे ॥ २६ ॥ यत्र च चम्पककेतकपाडलनवमल्लिकासुमवनानि तालतमालरसालप्रियालहिन्तालविपिनानि ॥ २७ ॥ । ७९ सरांसि यत्रानिलकम्पिताब्जोच्छलद्रजःपुञ्जसुगन्धिकानि । अनेककारण्डवकेकिकोकगतागतै रम्यतमानि भान्ति ॥ २८ ॥ किं बहुना ? - चित्रकूटदिवोर्मध्ये सुरावासकृतैव भित् । यद्वा न स्वश्चतुर्वर्गोपायस्तेनांनरान्तरम् ॥२९॥ तत्र त्रिलक्षाश्वपतिर्महीक्षित्साङ्गाभिधानोऽखिलभूमिशास्ता । स्वदोर्बलेनाम्बुधिमेखलां गामेकातपत्रामकरोत्प्रभुर्यः ॥ ३० ॥ आकारितोऽनेन विना भिषं न स्थातुं प्रभुर्यामिकवारकेऽहम् । इतीव भास्वान् हृदि सम्प्रधार्या ततक्षदङ्ग किल यद्भयेन ॥ ३१ ॥ सावधानतया द्रष्टुं सहस्त्राक्षोऽभवद्धरिः । पलायनैकधीः सम्यग् योद्धुं येन सहाक्षमः ॥३२॥ 6 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002553
Book TitleShatrunjayatirthoddharprabandha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2009
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Tirth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy