SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६८ परिशिष्ट । विचित्रकूटो गिरिचित्रकूटो लोकस्तु यत्राखिलकूटमुक्तः ॥४॥ तत्र श्रीकुम्भराजोऽभूत्कुम्भोद्भवनिभो नृपः । वैरिवर्गः समुद्रो हि येन पीतः क्षणात्क्षितौ ॥५॥ [त]त्पुत्रो राजमल्लोऽभूद्राज्ञां मल्ल इवोत्कटः । सुतः सङ्ग्रामसिंहोऽस्य सङ्ग्रामविजयी नृपः ॥६॥ तत्पट्ट भूषणमणिः सिंहेन्द्रवत्पराक्रमी । रत्नसिंहोऽधुना राजा राजलक्ष्म्या विराजते ७ ।। इतश्च गोपाह्यगिरौ गरिष्ठः श्रीबप्पभट्टीप्रतिबोधितश्च । श्रीआमराजोऽजनि तस्य पत्नी काचित्बभूव व्यवहारिपुत्री ॥८॥ तत्कुक्षिजाता: किलराजकोष्ठागाराहगोत्रे सुकृतैकपात्रे । श्रीओशवंशे विशदे विशाले तस्यान्वयेऽमी पुरुषाः प्रसिद्धाः ॥९॥ श्रीसारणदेवनामा तत्पुत्रो रामदेवनामाऽभूत् । लक्ष्मीसिंहः पुत्रो(त्रस्)तत्पुत्रो भुवनपालाख्यः ॥१०॥ श्रीभोजराजपुत्रो ठक्कुरसिंहाख्य एव तत्पुत्रः । घेताकस्तत्पुत्रो नरसिंहस्तत्सु..... तत्पुत्रस्तोलाख्यः पत्नी तस्याः (तस्य) प्रभूतकुलजाता । तारादेऽपरनाम्नी लीलूः पुण्यप्रभापूर्णा ॥१२॥ तत्कुक्षिसमुद्भुताः ष[ट्] पुत्रा[:] कल्पपादपाकाराः । [धर्मा]नुष्ठानपराः श्रीव(म)न्तः श्रीकृतोऽन्येषाम् ॥१३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002553
Book TitleShatrunjayatirthoddharprabandha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2009
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Tirth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy