SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १०० द्वितीय उल्लासः । श्रीऋषभमूलबिम्बे श्रीविद्यामण्डनाह्वसूरिवरैः । श्रीपुण्डरीकमूर्तावपि प्रतिष्ठा शुभा विदधे ॥१३२॥ (अष्टभिः कुलकम्) नालीलिखंश्च कुत्रापि हि नाम निजं गभीरहृदयास्ते । प्रायः स्वोपज्ञेषु च स्तवेषु तैर्नाम न न्यस्तम् ॥१३३॥ सङ्ग्रहश्लोकश्चात्रस्वस्ति श्रीनृपविक्रमाजलधिदिग्बाणेन्दुवर्षे १५८७ शुभे मासो माधवसंज्ञिकस्य बहुले पक्षे च षष्टयां तिथौ । वारेऽर्के श्रवणे च भे प्रभुपदाद्रौ साधुकर्मोद्धृतौ । विद्यामण्डनसूरयो वृषभसन्मूर्तेः प्रतिष्ठां व्यधुः ॥१३४॥ अन्येऽन्यासां चक्रुर्मूर्तीनां स्थापनां च शिष्यवराः । नानुबभूवे तस्मिन् समये केनापि दुःखलवः ॥१३५॥ कृतकृत्यस्य कर्मस्यानन्दलाभे किमुच्यते । किन्तु चित्तै तदान्येषां नामादानन्दकन्दली ॥१३६॥ न केवलं जनैः कर्मो धन्यो मेनोऽतिहर्षितैः । कर्मेणापि किलात्मानं धन्यं मेनेऽतिहर्षितः ॥१३७॥ तदा जज्ञे त्रयाणां हि समं वर्धापनक्षणः । मूर्तेर्गुरोश्च कर्मस्य स्वर्णपुष्पाक्षतादिभिः ॥१३८॥ सर्वावयवाभरणैर्वृष्टं कर्मेण सङ्घलोकैश्च ष विहितं न्युञ्छनकृत्यैरानन्दोद्भूतबहुलरोमाञ्चैः ॥१३९॥ दन्त्यं वा तालव्यं चैत्येऽस्थापयदथार्हतः कलसम् । तालव्यमेव चात्मनि कर्मो दुष्कर्ममर्मज्ञः ॥१४०॥ १. शत्रञ्जये। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002553
Book TitleShatrunjayatirthoddharprabandha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2009
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Tirth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy