SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 27 आवश्यक हारिभद्रीया पत्यबुद्धकरणे चरणं नासंति जिणवरिंदाणं । आहवभावकहणे पंचहि ठाणेहि पासत्था ॥ ११५१ ॥ व्याख्या -- प्रत्येकबुद्धाः - पूर्वभवाभ्यस्तोभयकरणा भरतादयस्तेषां करणं तस्मिन्नान्तर एव फलसाधके सति मन्दमतयश्वरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च पाठान्तरं वा 'बोधिं नासिंति जिणवरिंदाणं' कथं १'आहाकणे' ति कादाचित्कभावकथने - बाह्यकरणरहितैरेव भरतादिभिः केवलमुत्पादितमित्यादिलक्षणे, कथं नाशयन्ति १-पश्चभिः 'स्थानैः' प्राणातिपातादिभिः पारम्पर्येण करणभूतैः 'पार्श्वस्था' उक्तलक्षणा इति गाथार्थः ॥११५१ ॥ यतश्च - उम्मदेसणार चरणं नासिंति जिणवर्रिदानं । वावन्नदंसणा खलु न हु लम्भा तारिसा दहुं ॥ ११५२|| दारं | व्याख्या - उन्मार्गदेशनया अनयाऽनन्तराभिहितं चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, अतः 'व्यापन्नदर्शनाः खलु' विनष्टसम्यग्दर्शना निश्चयतः, खस्वित्यपिशब्दार्थो निपातः, तस्य च व्यवहितः सम्बन्धस्तसुपरिष्टात् प्रदर्शयिष्यामः, 'न हु लब्भा तारिसा दहुं'ति नैव कल्पन्ते तादृशा द्रष्टुमपीति, किं पुनर्ज्ञानादिना प्रतिलाभयितुमिति गाथार्थः ॥ ११५२ ॥ सप्रसङ्गं गतं ज्ञानद्वारम् दर्शनद्वारमधुना, तत्र दर्शननयमतावलम्बी कृतिकर्माधिकार एवावगतज्ञाननयमत इदमाह - जह नाणेणं न विणा चरणं नादंसणिस्स इय नाणं । न य दंसणं न भावो तेन र दिहिं पणिवयामो ॥ ११५३ ॥ व्याख्या -- यथा ज्ञानेन विना न चरणं, किन्तु सहैव, नादर्शनिन एवं ज्ञानं, किन्तु दर्शनिन एव, 'सम्यग्दृष्टेर्ज्ञानं मिथ्यादृष्टेर्विपर्यास' इति वचनात्, तथा न च दर्शनं न भावः, किन्तु भाव एव, भावलिङ्गान्तर्गतमित्यर्थः तेन कारणेन ज्ञानस्य भावत्वाद्दर्शनस्य ज्ञानोपकारकत्वाद् रेति प्राग्वत् 'दिट्ठिन्ति प्राकृतशैल्या दर्शनमस्यास्तीति दर्शनी तं दर्शनिनं, 'प्रणमामः' पूजयाम इति गाथार्थः ॥ ११५३ ॥ स्यादेतत् सम्यक्त्वज्ञानयोर्युगपद्भावादुपकार्योपकारकभावानुपपत्तिरिति, एतच्चासद्, यतः— जुगपि समुत्पन्नं सम्मन्तं अहिगमं विसोहेइ । जह कायगमंजणाई जलदिडीओ विसोहंति ॥ ११५४ ॥ व्याख्या -- 'युगपदपि " तुल्यकालमपि 'समुत्पन्नं' सञ्जातं सम्यक्त्वं ज्ञानेन सह 'अधिगमं विशोधयति' अधिगम्यन्तेपछि पदार्था येन सोऽधिगमः - ज्ञानमेवोच्यते, तमधिगमं विशोधयति - ज्ञानं विमलीकरोतीत्यर्थः, अत्रार्थे दृष्टान्तमाह-यथा काचकाञ्जने जलदृष्टी विशोधयत इति, कचको वृक्षस्तस्येदं काचकं फलम्, अञ्जनं-सौवीरादि, काचकं चाखनं च काचकाञ्जने, अनुस्वारोऽत्रालाक्षणिकः, जलम् उदकं, दृष्टि:- स्वविषये लोचनप्रसारणलक्षणा, जलं दृष्टिश्च जलदृष्टी ते विशोधयत इति गाथार्थः ॥ ११५४ ॥ साम्प्रतमुपन्यस्तदृष्टान्तस्य दार्शन्तिकेनांशतः भावदिकां प्रतिपादयन्नाह जह २ सुज्झइ सलिलं तह २ रुबाई पासई दिट्ठी । इय जह जह तत्तरुई तह तह तप्तागमो होए ।। ११५५ ॥ व्याख्या- यथा २ शुद्ध्यति सलिलं काचकफलसंयोगात् तथा तथा 'रूपाणि' तद्गतानि पश्यति द्रष्टा, 'इय' एवं यथा यथा 'तत्त्वरुचिः' सम्यक्त्वलक्षणा, संजायत इति क्रिया, तथा तथा 'तत्त्वागमः' तत्त्वपरिच्छेदो भवतीति, एवमुपकारकं सम्यक्त्वं ज्ञानस्येति गाथार्थः ॥ २१५५ ॥ स्यादेतत्- निश्चयतः कार्यकारणभाव एवोपकार्योपकारकभावः, स चासम्भवी युगपद्भाविनोरिति, अत्रोच्यते कारणकज्जविभागो दीवपगासाण जुगवजम्मेवि । जुगवुप्पन्नंपि तहा हेऊ नाणस्स सम्मतं ॥ ११५६ ॥ व्याख्या-यथेह कारणकार्यविभागो दीपप्रकाशयोः 'युगपज्जन्मन्यपि' युगपदुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा 'हेतुः' कारण ज्ञानस्य सम्यक्त्वं यस्मादेवं तस्मात्सकलगुणमूलत्वाद्दर्शनस्य दर्शनिन एव कृतिकर्म कार्यम्, आत्मनाऽवि तत्रैव यतः कार्यः, सकलगुणमूलत्वादेवेति, उक्तं च- "द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । धर्महेतोर्द्विषहस्य, सम्यग्दर्शनमिष्यते ॥ १ ॥ " अयं गाथाभिप्रायार्थः ॥ ११५६ ॥ इत्थं नोदकेनोचे सत्याहाचार्यः - नाणस्स जइवि हेऊ सविसयनिययं तहावि सम्मतं । तम्हा फलसंपत्ती न जुजए नाणपखे व ॥ १ ॥ ( प्र०) जह तिखरुईवि नरो गंतुं दे संतरं नयविहृणो । पावेइ न तं देसं नयजुत्तो चेव पाउणइ ॥ २ ॥ ( प्र० ) इय नाणचरणहीणो सम्मदिट्ठीवि मुक्खदेसं तु । पाउणइ नेय नाणाइसंजुओ चैव पाउणइ ॥ ३ ॥ ( प्र० ) व्याख्या - इदमन्यकर्तृकं गाथात्रयं सोपयोगमितिकृत्वा व्याख्यायते, ज्ञानस्य यद्यपि 'हेतुः' कारणं सम्यक्त्वमिति योगः, अपिशब्दोऽभ्युपगमवादसंसूचकः, अभ्युपगम्यापि ब्रूमः, तत्त्वतस्तु कारणमेव न भवति, उभयोरपि विशिष्टक्षयोपकार्यत्वात् स्वविषय नियतमितिकृत्वा, स्वविषयश्चास्य तत्त्वेषु रुचिरेव, तथाऽपि, 'तस्मात्' सम्यक्त्वात् 'फलसंपत्ती जए' फलसम्प्राप्तिर्न युज्यते, मोक्षसुखप्राप्तिर्न घटत इत्यर्थः, स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः, ज्ञानपक्ष Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy