________________
250
आवश्यक हारिभद्रीया
1
याsपि निषिद्धा, तथा चागमः - "गीतत्थो य विहारो बिदितो गीतत्थमीसितो भणितो । एत्तो ततियविहारो णाणुष्णातो जिणवरेहिं ॥ १ ॥ " न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्रपन्धानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणत्रतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते [यतो ] यावज्जीवाद्यखिलवस्तुपरिच्छेद्यरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमैहिकामुष्मिक फल प्राप्तिकारणमिति स्थितं 'इति जो उवदेसो सो णओ णाम' सि इति - एवं उक्तेन न्यायेन य उपदेशः ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च नामादौ पविप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वादस्य, क्रियारूपं तु तत्कार्यस्यात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः । उक्तो ज्ञाननयोऽधुना क्रियानयावसरः, तद्दर्शनं चेदं - क्रियैव प्रधानं ऐहिकामुष्मिक फलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाधामाह-'णायम्मि गेण्हितन्त्रे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्रात्यर्थिना यतितव्यमेव, न. यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तं - "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १ ॥” तथाऽऽमुष्मिक फलप्राप्त्यर्थिनाऽपि
१ गीतार्थम विहारो द्वितीयो गीतार्थनिश्रितो भणितः । इतस्तृतीयविहारो नानुज्ञातो जिनवरैः ॥ १ ॥
क्रियैव कर्त्तव्या, तथा मुनीन्द्रवचनमध्येवं व्यवस्थितं यत उक्तम् - "चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सवेसुवि तेण कथं तवसंजम मुज्जमंतेणं ॥ १ ॥” इतश्चैतदेवमङ्गीकर्तव्यम् - यस्मात् तीर्थकरगणधेरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः - "सुबहुपि सुयमहीयं किं काही चरणविप्पहीणस्स ? | अंधस्स जह पलित्ता दीवसय सहस्सको -
वि ॥ १ ॥" दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्त, चारित्रं क्रिये - त्यनर्थान्तरं क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भगवतः समुप्रन्न केवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता हस्वपञ्चाक्षरोद् गिरणमात्रकालावस्थायिनी सर्वसंवररूपा वारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिक फलप्राप्तिकारणमिति य उपदेशः - क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानय इत्यर्थः । अयं च नामादौ षडूविधे प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञानं तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः । उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं १, पक्षद्वयेऽपि युक्तिसम्भवाद्, आचार्यः पुनराह-'सव्वेसिं' गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह - 'सव्वेसिंपि' गाहा व्याख्या'सर्वेषामिति मूलनयानां अपिशब्दात् तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां - सामान्यमेव विशेषा
१ चैत्यकुलगणससे आचार्येषु च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपः संयमयोरुवच्छता ॥ १ ॥ २ सुबह्नपि श्रुतमधीतं किं करिष्यति चरणविप्रहीणं । अन्धस्य यथा प्रदीसा दीपशतसहस्रकोष्यपि ॥ १ ॥
एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत सर्वनयविशुद्धं - सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ॥ १६२३ ॥ इति शिष्यहितायां प्रत्याख्यानविवरणं समाप्तमिति । व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥ १ ॥ समाप्ता चेयं शिष्यहितानामावश्यकटीका ॥ कृतिः सिताम्बराचार्यजिन भटनिंग. दानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तराखूनोरल्पमतेराचार्यहरिभद्रस्य । यदिहोत्सूत्रमज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः । क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्य न जायते १ ॥ १ ॥ यदर्जितं विरच (मंच) यता सुबोध्यां पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् । भवे भवे तेन ममैवमेवं, भूयाज्जिनोत्तानुमते प्रयासः ॥२॥ अन्यच्च सन्त्यज्य समस्तसत्त्वा, मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावदं च सर्वत्र माध्यस्थमवामुवन्तु ॥ ३ ॥ समाप्ता चेयमावश्यकटीका । द्वाविंशतिः सहस्राणि, प्रत्येकाक्षरगणनया (संख्यया) । अनुष्टुप्छन्दसा मानमस्या उद्देशतः कृतम् ॥ १ ॥ अंकतोऽपि मन्थानं २२०००
Jain Education International
For Private Personal Use Only
www.jainelibrary.org