SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ भावश्यकहारिभद्रीया 218 परित्यागेन चैते दश विकल्पा एवंमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । 'अकिरियाणं च भवति चुलसीति'त्ति अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवं वादिनोऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया।। भूतिर्येषां क्रिया सैव, कारक सैव चोच्यते ॥१॥" इत्यादि, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्याः, एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदी न स्त:, कालादीनां तु पञ्चानां षष्ठी यहच्छा न्यस्यते, पश्चाद्विकल्पभेदाभिलापः,-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वेच पड़ विकल्पाः, तथा नास्ति जीवः परतः कालत डेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि पट्सु प्रतिपदं द्वादश विकल्पाः एकत्र, सप्त द्वादशगुणाश्चतुरशीतिर्विकल्या नास्तिकानामिति । 'अण्णाणिय सत्तहित्ति अज्ञानिकानां सप्तषष्टिर्भेदा इति, तत्र कुत्सितं ज्ञानमज्ञान तदेषामस्तीति अज्ञानिकाः, नन्वेवं लधुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात् , ततश्च जातिशब्दत्वाद् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिका:-असंचित्य कृतवैफल्यादिप्रतिपत्तिलक्षणा, अमुनोपायेन सप्तषष्टिः ज्ञातव्याः, तत्र जीवादिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादयः उपन्यसनीया, सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नव सप्तकाःत्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्त्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं ?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति !, एतन्न कश्चिदपीत्यभिप्रायः । 'वेणइयाणं च बत्तीसत्ति वैनयिकानां च द्वात्रिंशद् भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां प्रत्येकं कायेन वचसा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि, न चैतत् स्वमनीषिकाव्याख्यानं, यस्मादन्यैरप्युक्त"आस्तिकमतमात्माद्या नित्यानित्यात्मका नव पदार्थाः। कालनियतिस्वभावेश्वरात्मकृताः (तकाः) स्वपरसंस्थाः॥१॥कालयदृच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति भावाः स्वपरसंस्थाः ॥ २ ॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिं सदसद्वैतावाच्यां च को वेसि ॥३॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः। सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥ ४ ॥” इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या-पुण्यभाज एते सुलब्धमेभिर्यद् जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणं-पाडलिपुत्ते चाणको, पाटलीपुत्रे चाणक्यः, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणकं पलोएति, ण य पसंसति ण देति, तेण चाणकभज्जा ओलग्गिता,ताए सो करणिं गाहितो,ताधे कथितेण भणितं तेण-सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणक्को भणति-कीस दिन्नं १, राया भणइ-तुज्झेहिं पसंसितं, सो भणइ-ण मे पसंसितं, सबारंभपवित्ता ई लोग पत्तियाविंतित्ति 1. पच्छा ठितो. केत्तिया एरिसा तम्हाण कायवापरपाषण्डे:-अनन्तरोक्तस्वरूपैः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनितः परिचयःसंवसनभोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'असंस्तुतेषु प्रसभं कुलेष्वि'त्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियाश्रवणात् तक्रियादर्शनाच्च तस्यासकृदभ्यस्तत्वादवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः संजायते अतोऽतिचार हेतुत्वान्न समाचरणीयोऽयमिति । अत्र चोदाहरणं-सोरेढसड्डगो पुवभणितो।एवं शङ्कादिसकलशल्यरहितः सम्यक्त्ववान् शेषाणुव्रतादिप्रतिपत्तियोग्यो भवति, तानि चाणुव्रतानि स्थूलप्राणातिपातादिनिवृत्तिरूपाणि प्राक् लेशतः सूचितान्येव 'दुविधन्तिविधेण पढमो' इत्यादि(ना) अधुना स्वरूपतस्तान्येवोपदर्शयन्नाहथूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तंजहा-संकप्पओ अ आरंभओ चन्द्रगुप्तेन भिक्षुकाणा वृत्तिह ता, ते तस्मै धर्म कथयन्ति, राजा सुष्यति, चाणक्यं प्रलोकयति, तान् न प्रशंसति न ददाति, तैश्चाणक्यभार्या सेवितुमारम्धा, तया सकरणिं माहितः, तदा कथितेन भणितं तेन-सुभाषितमिति, राज्ञा तदन्यच्च दत्तं, द्वितीयदिवसे चाणक्यो भणति-कथं दत्तं ?, राजा भणति-युष्माभिः प्रशंसितं, स भणति-न मया प्रशंसितं सर्वारम्भप्रवृत्ताः कथं लोकं प्रत्याययन्तिी, पश्चात् स्थितः, कियन्त इंदशास्तस्सास कर्तव्या। २ सौराष्ट्रभावकः पूर्वभणितः Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy