________________
198 भावश्यकहारिभद्रीया अस्य व्याख्या-सर्वलोकेऽर्हचैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते-दृश्यते केवलज्ञानभास्वतेति लोकः-चतुदेशरज्ज्वात्मकः परिगृह्यते इति, उक्तं च-"धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १॥" सर्वः खल्वस्तिर्यगूलभेदभिन्नः, सर्वश्चासौ लोकश्च २ तस्मिन् सर्वलोके, त्रैलोक्ये इत्यर्थः, तथाहि-अधोलोके चमरादिभवनेषु तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु सन्त्येवार्हचैत्यानि अङ्घलोके सौधर्मादिषु सन्त्येवार्हचैत्यानि, तत्राशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामहन्तीत्यर्हन्तः-तीर्थकरास्तेषां चैत्यानि-प्रतिमालक्षजानि अहंच्चै त्यानि, इयमत्र भावना-चित्तम्-अन्तःकरणं तस्य भावे कर्मणि वा वर्णदृढादिलक्षणे व्यजि कृते चैत्यं तत्राईतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादनादर्हचैत्यानि भण्यन्ते, तेषां किं ?-करोमीत्युत्तमपुरुषकवचननिर्देशनात्मा भ्युपगमं दर्शयति, किमित्याह-काय:-शरीरं तस्योत्सर्ग:-कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्ग, आह-कायस्योत्सर्ग इति षष्ट्या समासः कृतः, अर्हचैत्यानामिति प्रागुतं, तत् किमहे चैत्यानां कायोत्सर्ग करोति, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, ततोऽहं त्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम् , तत्र वन्दनम्-अभिवादनं प्रशस्तकापवाडमनःप्रवृत्तिरित्यर्थः, तत्प्रत्यय-तनिमित्त, तत्फलं मे कथं नाम कायोत्सर्गादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 'पूयणवत्तियाए'त्ति पूजनप्रत्ययं-पूजानिमित्तं,तत्र पूजन-गन्धमाल्यादिभिरभ्यर्चनं,तथा 'सकारवत्तियाए'त्ति सत्कारप्रत्ययं-सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते ततस्तावेव कस्मान्न क्रियेते ?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, उक्त च-'दबत्थउ भावत्थाउ' इत्यादि, अतः श्रावकाः पूजनसरकारावपि कुर्यन्त्येव,साधवस्तु प्रशस्ताध्यवसायनिमित्तमेवमभिदधति,तथा सम्माणवत्तियाए'त्ति सन्मानप्रत्ययं-सम्मान निमित्तं, तत्र स्तुत्यादिभिर्गुणोन्नतिकरणं सन्माना, तथा मानसः प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एव किंनिमित्तमित्यत आह-वोहिलाभवत्तियाए' वोधिलाभप्रत्ययं-बोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्बोधिलाभो भण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह 'निरुवसग्गवत्तियाए' निरुपसर्गप्रत्यय-निरुपसर्गनिमित्तं, निरुपसर्गो-मोक्षः, अयं च कायोत्सर्गःक्रियमाणोऽपि श्रद्धा(दि)विकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-'सद्धाए मेहाए चिईए धारणाए अणुप्पेहाए , वद्धमाणीए गमि काउस्सग्ग'ति श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्ग न बलाभियोगादिना श्रद्धा-निजोऽभिलाषा, एवं मेधया-पटुत्वेन, नजडतया, अन्ये तु व्याचक्षते-मेधयेति मर्यादावर्तित्वेन नासमञ्जसत. येति, एवं धृत्या-मन प्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया-अहंद्गुणाविष्करणरूपया न तच्छ्न्य तया, अनुप्रेक्षया-अर्हद्गुणानामेव मुहुर्मुहुरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यते, श्रद्धया वर्धमानया एवं मेधयेत्यादि, एवं तिष्ठामि कायोत्सर्गम्, आह-उक्तमेव प्राकरोभि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति ?,उच्यते, 'वर्तमानसामीप्ये वर्तमानवद्वा (पा०३-३-१३१)इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानी त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्येव, आह-किं सर्वथा ?, नेत्याह-'अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामि'त्ति, एयं च सुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दसणविसुद्धीय तइत्ति, तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति, तओ नमोकारेण पारेत्ता सुयणाणपरिवुहिनिमित्तं अतियारविसोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोकारपुषयं थुइं पढंति, तंजहा
पुक्खरघरदीवढे धायइसंडे य जंबुद्दीवे य । भरहेरवयविदेहे धम्माइगरे नमसामि ॥१॥ तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्त वंदे पप्फोडियमोहजालस्स ॥ २॥ जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदानवनरिंदगणचिअस्स, धम्मस्स सारमुवलब्भ करे पमायं ॥३॥ सिद्धेभो! पयओ णमो जिणमए नंदी सया संजमे, देवनागसुवण्णकिण्णरगणस्सब्भूअभावचिए। लोगो जत्थ पइटिओ जगमिणं तेलुकमच्चासुरं, धम्मो वड्उ सासओ विजयऊ धम्मुत्तरं बड्डउ ॥४॥ सुअस्स भगवओ करेमि काउस्सग्गं वंदण० अन्नत्य (सूत्रम्)
अस्य व्याख्या-पुष्कराणि-पद्मानि तैर्वर:-प्रधानः पुष्करवरः२श्चासौ द्वीपश्चेति समासः, तस्यार्ध मानुषोत्तराचलार्वाग्पनि तस्मिन्, तथा धातकीनां खण्डानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्छोपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वर्द्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्योपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिर्देशः द्वन्द्वैकवद्भावाद् भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि-'दुर्गतिप्रसृतान् जीयान् , यस्माद् धारयते ततः। धत्ते चैतान शुभस्थाने, तस्माद् धर्म इति स्मृतः ॥ १॥ स च द्विभेदःश्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादी करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुका, साम्प्रतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org