SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 116 आवश्यकहारिभद्रीया न गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न काए ण संगे न रुहे न इत्थी न पुरिसे न नपुंसए," प्रकारान्तरेण सिद्धादिगुणान् प्रदर्शयन्नाह भहया कंमे णव दरिसणंमि चत्तारि भाषए पंच । माइम अंते सेसे दोदो खीणभिलावेण इगतीसं ॥३॥ व्याख्या-'अथवे ति व्याख्यान्तरप्रदर्शनार्थः, 'कर्मणि' कर्मविषया क्षीणाभिलापेनैकत्रिंशद्गुणा भवन्ति, तत्र नव दर्शनावरणीये, नवभेदा इति-क्षीणचक्षुर्दर्शनावरणः ४ क्षीणनिद्रः ५, चत्वार आयुष्के-क्षीणनरकायुष्कः ४ 'पंच आइमे'त्ति आधे ज्ञानावरणीयाख्ये कर्मणि पञ्च-क्षीणाभिनिबोधिकज्ञानावरणः ५ 'अंते'त्ति अन्त्ये-अन्तराये कर्मणि पञ्चैव क्षीणदानान्तरायः ५ शेषकर्मणि-वेदनीयमोहनीयनामगोत्र लक्षणे द्वौ द्वौ भेदौ भवतः, क्षीणसातावेदनीयः क्षीणासातावेदनीयः क्षीणदर्शनमोहनीयः क्षीणचारित्रमोहनीयः क्षीणाशुभनाम क्षीणशुभनाम क्षीणनीचैर्गोत्रः क्षीणोच्चैर्गोत्र इति गाथार्थः॥ ___ द्वात्रिंशद्भिर्योगसङ्ग्रहैः, क्रिया पूर्ववत् , इह युज्यन्त इति योगाः-मनोवाक्कायव्यापाराः, ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एव गृह्यन्ते, तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङ्ग्रहणानि योगसङ्ग्रहाः प्रशस्तयो. गसङ्ग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शनायाह नियुक्तिकार:आलोयणा निरवलावे, आवईसु दढधम्मया । अणिस्सिओवहाणे यं, सिक्खो णिप्पडिकम्माँ ॥ १२७४ ॥ , गुरुर्न लघुर्न शीतो नोष्णो न स्निग्धो न रूक्षो न कायवान् न सङ्गवान् न रुहो न स्त्री न पुरुषो न नपुंसकं अण्णायया अलोहे य, तितिक्खा अन्नवे मुंई । सम्मदिही जमाही य, आयारे विणओवैए ॥ १२७५ ॥ "धिई मई य"संवेगे, पणिही सुविहि "संवरे । अत्तदोसोवसंहारो, सव्वकामविरतिया ।। १२७६ ॥ पच्चखाणों विउस्संग्गे, अप्पाए लवालवे । झाणसंवरजोगे य, उद्दए मारणंतिए॥१२७७॥ संगाणं च परिणा, पायच्छित्तकरैणे इय । आराहणा य मैरणंते, बत्तीसं जोगसंगहा ॥१२७८ ॥ आसां व्याख्या-'आलोयण'त्ति प्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्याय सम्यगालोचना दातव्यार, निरवलावे'त्ति आचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा-'कयरे आगच्छइ दित्तरूवे'इत्यादि २,'आवतीसु दढधम्मत'त्ति तथा योगसङ्ग्रहायैव सर्वेण साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या,आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः,३, 'अणिस्सिओवहाणे'त्ति प्रशस्तयोगसङ्ग्रहायैवानिश्रितोपधानं च कार्यम्, अथवाऽनिश्रित उपधाने च यत्नः कार्यः, उपदधातीत्युपधानं-तपः न निश्रितमनिश्रितम्-ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितं च तदुपधानं चेति समासः ४, 'सिक्ख'त्ति प्रशस्तयोगसङ्ग्रहायैव शिक्षाऽऽसेवितव्या, सा च द्विप्रकारा भवति-ग्रहणशिक्षाऽऽसेवनाशिक्षा च ५, 'निप्पडिक म्मय'त्ति प्रशस्तयोगसङ्ग्रहायव निष्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति ६ प्रथमगाथासमा सार्थः ॥ 'अन्नायय'त्ति तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्य, प्रशस्तयोगाः सङ्ग्रहीता भवन्तीत्ये. तत् सर्वत्र योज्यं ७,'अलोहे'त्ति अलोभश्च कार्यः, अथवाऽलोभे यत्नः कार्य:८, 'तितिक्ख'त्ति तितिक्षा कार्या, परीषहादि. जय इत्यर्थः९, अजवे'त्ति ऋजुभावः-आर्जवं तच्च कर्तव्यं१०,'सुइ'त्ति शुचिना भवितव्यं, संयमवतेत्यर्थः११, 'सम्मदिहित्ति सम्यग्-अविपरीता दृष्टिः कार्या, सम्यग्दर्शनशुद्धेरित्यर्थः १२, समाधिश्च कार्यः, समाधानं समाधिः-चेतसः स्वास्थ्यं १३, 'आचारे विणओवए'त्ति द्वारद्वयम् , आचारोपगः स्यात् , न मायां कुर्यादित्यर्थः १४, तथा विनयोपगः स्यात्, न मानं कुर्यादित्यर्थः१५, द्वितीयगाथासमासार्थः॥ धिई मई यत्ति धृतिर्मतिश्च कार्या,धृतिप्रधाना मतिरित्यर्थः१६, संवेगे'त्ति संवेगः कार्य: १७, पणिहि'त्ति प्रणिधिस्त्याज्या, माया न कार्येत्यर्थः१८, सुविहि'त्ति सुविधिः कार्यः१९, 'संवरे'त्ति संवरः कार्यः, न तु न कार्य इति व्यतिरेकोदाहरणमत्र भावि २०, अत्तदोसोवसंहारे'त्ति आत्मदोषोपसंहारः कार्यः २१. 'सबकाम मविरक्तता भावनीया २२, इति तृतीयगाथासमासार्थः ॥ 'पञ्चक्खाणे'त्ति मूलगुणउत्तरगुणविषयं प्रत्याख्यानं कार्यमिति द्वारद्वयं२३-२४, विउस्सग्गे'त्ति विविध उत्सर्गो व्युत्सर्गः स च कार्य इति द्रव्यभावभेदभिन्ना, २५ अप्पमाए'त्ति न प्रमादोऽप्रमादः, अप्रमादः कार्यः २६, 'लवालवे'त्ति कालोपलक्षणं क्षणे २ सामाचार्यनुष्ठानं कार्य २७, 'झाणसंवरजोगे'त्ति ध्यानसंवरयोगश्च कार्यः, ध्यानमेव संवरयोगः, २८, उदये मारणंतिए'त्ति वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्य इति २९ चतुर्थगाथासमासार्थः। 'संगाणं च परिण'त्ति सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभावेन परिज्ञा कार्या ३०, 'पायच्छित्तकरणे इय' प्रायश्चित्तकरणं च कार्य ३१ 'आराहणा य मरणंति'त्ति आराधना च मरणान्ते कार्या, मरणकाल इत्यर्थः, ३२ एते द्वात्रिंशद् योगसङ्घहा इति पञ्चमगाथासमासार्थः॥ ॥ आद्यद्वाराभिधित्सयाऽऽह उज्जेणि अट्टणे खलु सीहगिरिसोपारए य पुहइवई । मच्छियमल्ले दूरल्लकूविए फलिहमल्ले य ॥ १२७९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy