________________
आवश्यक - हारिभद्रीयवृत्तिः
किमर्थमिति १, आह-प्रयोजनार्थ षष्ठी विवक्षातः प्रयुक्ता सम्बन्धलक्षणाऽवयवलक्षणा वा, योऽसौ योगस्त्रिकालविपयस्तस्यातीतं सावद्यमंशमवयवं प्रतिक्रमामि न शेषं वर्तमानमनागतं वा, केचित् पुनरविभागज्ञाः अविशिष्टमेव सामान्यं योगं सम्बन्धयन्ति, तन्न युज्यते, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणप्रयोजनाभावात् ग्रन्थ गुरुत्वापत्तेश्च, अविशिष्टमपि संवध्य पुनर्विशेषेऽवस्थापनीयस्तच्छन्द इति ग्रन्थगुरुता, यदेतत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितमतः प्रायश्चित्तमासेवितेऽतीतविषयमिति गतत्वादतीतप्रतिक्रमणमिति न वक्तव्यम्, इह पुनरुक्तत्वप्रसङ्गात् यस्मादस्य प्रतिकमामीतिशब्दस्य कर्मणा भवितव्यमवश्यं तच्च भूतं सावद्ययोगं मुक्त्वा नान्यत् कर्म भवितुमर्हति, तस्मात्तस्येत्यत्रयवलक्षणया षष्ट्या सम्बन्धः ॥ आह-यद्येवं पुनरुक्तादिभयादभिधीयते तत इदमपरमाशङ्कापदमिति दर्शयतितिविति न जुस पडिपयविहिणा समाहिअं जेण । अस्थविगप्पणयाए गुणभावणयन्तिको दोसो १ ॥१०४७॥
॥३२३॥
व्याख्या- 'त्रिविधं त्रिविधेनेत्यत्र त्रिविधेनेत्ययुक्तमिति, अत आह— 'प्रतिपदविधिना समाहितं येन' यस्मात् प्रतिपदमभिहितमेव, 'मनसा वाचा कायेने'ति, अत्रोच्यते, अर्थविकल्पनया गुणभावनयेति वा को दोषः ?, एतदुक्तं भवतिअर्थविकल्पसङ्ग्रहार्थं न पुनरुक्तम्, अथवा गुणभावना पुनः पुनरभिधानाद्भवतीति न दोषः, अथवा मनसा वाचा कायेनेत्यभिहिते प्रतिपदं न करोमि न कारयामि नानुजानामीति 'यथासङ्ख्य मनुदेशः समानाना' मिति यथासङ्ख्यकमनिष्टं मा प्रापदिति त्रिविधेनैकैकमुच्यते, त्रिविधमित्यत्राप्ययमेव प्रायः परिहार इति गाथार्थः ॥ १०४७ ॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, ‘तस्य भदन्त ! प्रतिक्रमाभी'त्यत्र भदन्तः पूर्ववद् अतिचारनिवृत्तिक्रियाभिमुखश्च तद्विशुद्ध्यर्थमामन्त्रयत इति अत्राऽऽह - ननु पूर्वमुक्त एव भदन्तः स एवानुवर्तिष्यते, एवमर्थ चादौ प्रयुक्त इत्यतः किं पुनरनेनेति, अत्रोच्यते, अनुवर्तनार्थमेव अयं पुनरनुस्मरणाय प्रयुक्तः, यतः परिभाषा-अनुवर्तन्ते च नाम विधयो, न चानुवर्तनादेव भवन्ति, किं, तर्हि ?, यज्ञाद्भवन्ति, 'स चार्य यज्ञः पुनरुच्चारण' मिति, अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ज्ञापितं भवति — सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति, उक्तं च भाष्यकारण - 'सामाश्यपञ्चप्पणवयणो वायं भदंत सहोति । सङ्घकिरियावसाणे भणियं पञ्चपणमणेणं ॥ १ ॥” इति कृतं प्रसङ्गेन, प्रतिक्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृतमभिधीयते तच्च द्विधा -- द्रव्यतो भावतश्च, तथा चाह नियुक्तिकार:
sift fourite कुलालमिच्छति तत्थुदाहरणं । भावंमि तदुवउसो मिआवई तत्थुदाहरणं ॥ १०४८ ॥ व्याख्या - द्रव्य इति द्वारपरामर्शः, द्रव्यप्रतिक्रमणं तदभेदोपचारात् तद्वदेवोच्यते, अत एवाह-निवादि, आदिशब्दादनुपयुक्तादिपरिग्रहः, कुलालमिथ्या दुष्कृतं तत्रोदाहरणं, तश्चेदम्-- ऐगस्स कुंभकारस्स कुडीए साहुणो ठिया, तत्थेगो चेल्लओ तस्स कुंभगारस्स कोलालाणि अंगुलिधणुहरणं पाहाणएहिं विंधइ, कुंभगारेण पडिजग्गिउं दिट्ठो, भणिओ-कीस मे कोलालाणि काणेसि १, खुड्डुओ भणइ-मिच्छामि दुक्कडंति, एवं सो पुणोऽवि विंधिऊण मिच्छामिदुक्कडंति,
१ सामायिकप्रत्यर्पणवचनो वाऽयं मदन्तशब्द इति । सर्वक्रियावसाने भणितं प्रत्यर्पणमनेन ॥ १॥ २ एकस्य कुम्भकारस्य कुर्व्या (गृहे) साधवः स्थिताः, तत्रैकः शुकस्तस्य कुम्भकारस्य भाजनानि अनुधनुषा पाषाणैः काणीकरोति, कुम्भकारेण प्रतिजागर्थं दृष्टः, भणितश्च कथं मम भाजनानि काणयसि ?, झुलको भणति - मिथ्या मे दुष्कृतमिति, एवं स पुनरपि काणयित्वा मिथ्या मे दुष्कृतमिति ( करोति ),
पंच्छा कुंभगारेण तस्स खुडुगस्स कन्नामोडओ दिनो, सो भणइ - दुक्खाविओऽहं, कुंभगारो भणइ-मिच्छामि तुकडं, एवं सो पुणो पुणो कन्नामोडियं दाऊण मिच्छा दुकडंति करेइ, पच्छा चेलओ भणइ - अहो सुंदरं मिच्छामिदु कंडति, कुंभगारो भइ - तुझवि एरिस चैव मिच्छा दुकडंति, पच्छा ठिओ विधियवस्स । 'जं दुक्कडंति मिच्छा तं चैव णिसेवई पुणो पावं । पचक्खमुसावाई मायाणियडिप्पसंगो य ॥ १ ॥ एवं दक्षपडिकमणं ॥ भावप्रतिक्रमणं प्रतिपादयति-भाव इति द्वारपरामर्श एव, 'तदुपयुक्त एव' तस्मिन् - अधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति, मृगापतिः तत्रोदाहरणं, सच्चेदम्-भगवं वद्धमाणसामी को सबीए समोसरिओ, तत्थ चंदसूरा भगवंतं वंदगा सविमाणा ओइण्णा, तत्थ मियावई अजा उदयणमाया दिवसोत्तिकाउं चिरं ठिया, सेसाओ साहुणीओ तित्थयरं वंदिऊण सनिलयं गयाओ, चंदसूरावि तित्थयरं बंदिऊण पडिगया, सिग्धमेव वियालीभूयं, मियावई संभंता, गया अज्जचंदणासगासं ।
१ पश्चात् कुम्भकारेण तस्य क्षुल्लकस्य कर्णामोटको दत्तः, स भणति दुःखितोऽहं कुम्भकारो भणति मिथ्या मे दुष्कृतं, एवं स पुनः पुनः कर्णामोटकं दवा मिथ्यादुष्कृतमिति करोति, पचारको भणति महो सुन्दरं मिथ्यामे दुष्कृतमिति, कुम्भकारो भणति - तवापि ईदृशमेव मिथ्यामे दुष्कृतमिति, पश्चारिस्थतः काणनात् । यदुष्कृतमिति मिथ्या ( कृत्वा) सदेव निषेवते पुनः पापम् । प्रत्यक्षमृषावादी मायानिकृतिप्रसङ्ग ॥ १ ॥ एतद्रव्यप्रतिक्रमणं । २ भगबान् वर्धमानस्वामी कौशाम्ब्यां समवसृतः, तत्र चन्द्रसूप भगवन्तं वन्दितुं सविमानाववतीण, तत्र मृगावती आर्योदयनमाता दिवस इतिकृत्वा चिरं स्थिता, शेषाः साध्य स्तीर्थकरं वन्दित्वा स्वनिखयं गताः, चन्द्रसूर्यावपि तीर्थकरं वन्दित्वा प्रतिगतौ, शीघ्रमेव विकालीभूतं, मृगावती संभ्रान्ता, गता चन्दनासकाशं ।
-Jain Education International
For Private Personal Use Only
www.jainelibrary.org