SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ॥२९॥ भावश्यक-हारिभद्रीयवृत्तिः हृदयं, सा च समुद्घातानन्तरभाविन्येव भूतोपचारं कृत्वाऽनागतैव गृह्यते, तस्याः समयस्तस्मिन् , भिन्नमुहूर्त एवेत्यर्थः, ब्रजन्ति-गच्छन्ति जिनाः-केवलिनः 'समुद्घातं' प्राक्प्ररूपितस्वरूपमिति गाथार्थः ॥ ९५६ ॥ साम्प्रतं यदुक्तं 'शैलेशी प्रतिपद्यते सिध्यति चे' ति, तत्रासावेकसमयेन लोकान्ते सिध्यतीत्यागमः, इह च कर्ममुक्तस्य तद्देशनियमेन गतिर्नोपपद्यते इति मा भूदव्युत्पन्नविभ्रम इत्यतस्तन्निरासेनेष्टार्थसिद्ध्यर्थमिदमाहलाउअ एरंडफले अग्गी धूमे उसू धणुविमुक्के । गइपुव्वपओगेणं एवं सिद्धाणवि गईओ ॥९५७ ॥ व्याख्या-अलाबु एरण्डफलम् , अग्निधूमौ, इपुर्धनुर्विमुक्तः, अमीषां यथा तथा गमनकाले स्वभावतस्तन्निबन्धनाभावेऽपि देशादिनियतैव गतिः पूर्वप्रयोगेण प्रवर्तते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिरित्यक्षरार्थः ॥ ९५७ ॥ अधुनाभावार्थः प्रयोगैर्निदर्श्यते-तत्र कर्मविमुको जीवः सकृदूर्ध्वमेवाऽऽलोकाद्गच्छति, असङ्गत्वेन तथाविधपरिणामत्वादष्टमृत्तिकालेपलिप्ताधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुवत् तथा छिन्नबन्धनत्वेन तथाविधपरिणतेस्तद्विधैरण्डफलवत तथा स्वाभाविकपरिणामत्वादग्निधूमवत् तथा पूर्वप्रयुक्ततक्रियातथावि धसामर्थ्याद्धनुःप्रयलेरितेषुवद, इषुः-शर इति गाथार्थः॥९५७ ॥ एवं प्रतिपादिते सत्याह कहिं पडिहया सिद्धा, कहिं सिद्धा पइडिया । कहिं बोंदि चइत्ता णं, कत्थ गंतूण सिज्झई १ ॥९५८ ॥ व्याख्या-कप्रतिहता' क प्रतिस्खलिता इत्यर्थः सिद्धाः' मुक्ताः, तथा 'क्क सिद्धाःप्रतिष्ठिताक व्यवस्थिता इत्यर्थः, तथा 'क बोन्दिं त्यक्त्वा' क तर्नु परित्यज्येत्यर्थः, इह बोन्दिः तनुः शरीरमित्यनन्तरं, तथा क गत्वा 'सिध्यन्ति' निष्ठितार्था भवन्ति, इत्यनुस्वारलोपोऽत्र द्रष्टव्यः, अथवैकवचनतोऽप्येवमुपन्यासः सूत्रशैल्याऽविरुद्ध एव, यतोऽन्यत्रापि प्रयोगः'वत्थगंधमलंकारं इत्थीओ सयणाणि य । अच्छंदा जे ण भुंजंति ण से चाइत्ति वुच्चई ॥१॥ इत्यादि गाथार्थ: ॥९५८॥ इत्थं चोदकपक्षमधिकृत्याऽऽह अलोए पडिहया सिडा, लोअग्गे अ पइडिआ। इहं वोदिं चइता णं, तत्थ गंतूण सिज्झई ॥९५९ ॥ __ व्याख्या-'अलोके' केवलाकाशास्तिकाये 'प्रतिहताः प्रतिस्खलिताः सिद्धा इति. इह च तत्र धर्मास्तिकायाद्यभावात तदानन्तर्यवृत्तिरेव प्रतिस्खलन, न तु सम्बन्धिविघातः, प्रदेशानां निष्प्रदेशत्वादिति सूक्ष्मधिया भावनीयं, तथा 'लोकाने च' पश्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिताः, अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा 'इह' अर्धतृतीयद्वीपसमुद्रान्तः 'बोन्दि' तनुं 'त्यक्त्वा' परित्यज्य सर्वथा किम् ?-'तत्र' लोकायं 'गत्वा' अस्पृशद्गत्या समयप्रदेशान्तरमस्पृशन्नित्यर्थः, 'सिध्यन्ति' निष्ठितार्था भवन्ति सिद्ध्यति वेति गाथार्थः ॥ ९५९ ॥ तत्र 'लोकाग्रे च प्रतिष्ठिता' इति यदुक्तं तदङ्गीकत्याऽऽह-क पुनर्लोकान्त इत्यत्रान्तरमाह ईसीपन्भाराए सीआए जोअणमि लोगंतो। वारसहिं जोअणेहिं सिद्धी सव्वठसिद्धाओ॥९६०॥ व्याख्या-ईषत्प्राग्भारा-सिद्धिभूमिस्तस्याः 'सीताया' इति द्वितीयं भूमेर्नामधेयं योजने लोकान्त ऊर्ध्वमिति गम्यते, अप लोकान्तालोकायोः संगतत्वात् सिद्धानां च लोकान्तावस्थाननियमात् अलोकप्रदेशेवंशेन गत्वा निवर्तनरूपं स्खलनं प्रदेशानां निपदेशात्याला संगतम्, भने तु धर्मावभावास स्यादेव गमनं * संबन्धे विधातः स्तिर्यक् चैतावति क्षेत्रे तदसम्भवात् , तथा चाऽऽह-द्वादशभिर्योजनैः सिद्धिः ऊर्ध्व भवति, कुतः ?-सर्वार्थसिद्धा विमानवरात्, अन्ये तु 'सिद्धि' लोकान्तक्षेत्रलक्षणामेव व्याचक्षते, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः ॥ ९६० ॥ साम्प्रतमस्या एव स्वरूपव्यावनायाहनिम्मलदगरयवण्णा तुसारगोखीरहारसरिवन्ना । उत्ताणयछत्तयसंठिआ य भणिया जिणवरेहिं ॥ ९६१ ॥ व्याख्या-निर्मलदगरजोवर्णाः, तत्र दगरजः-इलक्ष्णोदककणिकाः, तुषारगोक्षीरहारतुल्यवर्णाः, तुषार:-हिम, गोक्षीरादयः प्रकटार्थाः । संस्थानमुपदर्शयन्नाह-उत्तानच्छत्रसंस्थिता च भणिता जिनवरैरिति, उत्तानच्छत्रवत् संस्थितेति गाथार्थः ॥ ९६१ ॥ अधुना परिधिप्रतिपादनेनास्या एवोपायतः प्रमाणमभिधित्सुराहएगा जोअणकोडी बायालीसं च सयसहस्साई। तीसं चेव सहस्सा दो घेव सया अउणवन्ना ॥ ९६२ ॥ व्याख्या-निगदसिद्धा, नवरं पञ्चचत्वारिंशद्योजनलक्षप्रमाणक्षेत्रस्याल्पमन्यत् परिध्याधिक्यं प्रज्ञापनातोऽवसेयम् , इहौघत इदमिति ॥९६२॥ इदानीमस्या एव बाहुल्यं प्रतिपादयन्नाह बहुमज्झदेसभागे अद्वेव य जोअणाणि बाहल्लं । चरमंतेसु अ तणुई अंगुलऽसंखिजईभागं ॥ ९६३ ॥ व्याख्या-मध्यदेशभाग एव बहुमध्यदेशभागस्तस्मिन्नष्टैव योजनानि बाहुल्यम्-उच्चैस्त्वं 'चरिमान्तेषु' पश्चिमान्तेषु तन्वी, कियता तनुत्वेन ? इत्यत्राह-अङ्गुलासङ्ख्येयभागं यावत् तन्वीति गाथार्थः ॥ ९६३ ॥ सा पुनरनेन क्रमेणेत्वं तन्वीति दर्शयति Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy