SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ॥२५८॥ आवश्यक - हारिभद्रीयवृत्तिः माह, के पाश्चित् सुखदुःखरहिता एव ते तत्र तिष्ठन्तीति दर्शनम्, अत आह— 'निर्वाणसुखं च तेऽनुप्राप्ता' निरतिशयसुखं प्राप्ता इत्यर्थः, ते च केषाञ्चिद्दर्शनपरिभवादिनेहाऽऽगच्छन्तीति दर्शनं, तन्निवृत्त्यर्थमाह- 'शाश्वतं नित्यम् 'अन्या - बाधं' ब्याबाधारहितं प्राप्ताः 'अजरामरं स्थानं' जरामरणरहितं स्थानमिति गाथार्थः ॥ ९११ ॥ द्वारं १ ॥ साम्प्रतं द्वितीयद्वारव्याचिख्यासयाऽऽह पावंति जहा पारं समं निजामया समुदस्स । भवजलहिस्स जिनिंदा तहेब जम्हा अओ अरिहा ।। ९१२ ॥ व्याख्या - 'प्रापयन्ति' नयन्ति 'यथा' येन प्रकारेण 'पारं' पर्यन्तं 'सम्यक्' शोभनेन विधिना 'निर्यामकाः' प्रतीताः, कस्य ? - समुद्रस्य, 'भवजलधेः ' भवसमुद्रस्य जिनेन्द्रास्तथैव, पारं प्रापयन्तीति वर्तते यस्मादेवमतस्तेऽर्हाः, नमस्कारस्येति गम्यते, अयं संक्षेपार्थः ॥ ९९२ ॥ भावत्थो पुण एत्थ निज्जामया दुविहा, तंजहा - दवनिज्जामया भावनिज्जामया य, दवनिजामए उदाहरणं तहेव घोसणगं विभासा । एत्थ अट्ठवाया वण्णेयबा, तंजहा-पाईणं वाप पडीणं वाए ओईणं वाए दाहिणं वाए, जो उत्तरपुरत्थिमेण सो सत्तासुओ, दाहिणपुबेणं तुंगारो, अवरदाहिणेणं बीआओ, अवरुत्तरेण गजभो, एवेते अट्ठ वाया, अन्नेवि दिसासुं अट्ठ चेव, तत्थ उत्तरपुवेणं दोन्नि, तंजहा - उत्तरसत्तासुओ पुरत्थिमससासुओ य १ भावार्थः पुनरत्र निर्यामका द्विविधाः, तद्यथा - द्रव्यनियमका भावनियमकाथ, द्रम्यनियमके उदाहरणं तथैव घोषणं विभाषा । भन्राष्टो वाता वर्ण पितष्याः, तद्यथा-प्राचीनवतिः प्रतीचीनवातः उदीचीनवातो दाक्षिणात्यवातः, य उत्तरपौरस्त्यः स सहवासुकः दक्षिणपूर्वस्यां तुङ्गारः, अपरदक्षिणस्यां बीजापः अपरोत्तरस्यां गर्जभः, एवमेतेऽष्टवाताः, अम्येऽपि दिवष्टैव तत्रोत्तरपूर्वस्यां द्वौ तद्यथा-उत्तरसवासुकः पूर्वसश्वासुका, * विभावो. विजाभो ture विदोनिवि पुरत्थिमतुंगारो दाहिणतुंगारो य, दाहिणवीयावो अवरवीयावो य, अवरगज्जभो उत्तरगजभोय, एए सोलस वाया । तत्थ जहा जलिहिंमि कालियावायरहिए गज्जहाणुकूलवाए निउणनिज्जामगसहिया निच्छिकुपोता जहिट्ठियं पट्टणं पावेंति, एवं च मिच्छन्तका लियावायविरहिए सम्मत्तगज्जभपवाए । एगसमएण पत्ता सिद्धिवसहिपट्टणं पोया ॥ ९९३ ॥ व्याख्या - मिथ्यात्वमेव कालिकावातः तेन विरहिते भवाम्भोधौ तथा सम्यक्त्वगर्जभप्रवाते, कालिकावातो ह्यसाध्यः गर्जभस्त्वनुकूलः, एकसमयेन प्राप्ताः सिद्धिवसतिपत्तनं 'पोताः' जीवबोहित्थाः, तन्निर्यामकोपकारादिति भावना ॥ तत यथा सांयात्रिकसार्थः प्रसिद्ध निर्यामकं चिरगतमपि यात्रा सिद्ध्यर्थं पूजयति, एवं ग्रन्थकारोऽपि सिद्धिपत्तनं प्रति प्रस्थितोटयात्रासिद्धये निर्यामकर लेभ्यस्तीर्थ कृद्भयः स्तवचिकीर्षयेदमाह - निज्जामगरयणाणं अमूढनाणमइकण्णधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥ ९१४ ।। व्याख्या- 'निर्यामकरत्नेभ्यः' अर्हद्भयः 'अमूढज्ञाना' यथावस्थितज्ञाना मननं मतिः- संविदेव सेव कर्णधारो येषां ते तथाविधास्तेभ्यो वन्दामि विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्य इति गाथार्थ ।। ९१४ ॥ द्वारं २ ॥ साम्प्रतं तृतीयद्वारव्याचिख्यासयाऽऽह पा ंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । पउरतणपाणिआणि अ वणाणि पावंति तह चेव ।। ९१५ ।। इतरस्यामपि द्वावेव- पूर्वतुङ्गारो दक्षिणतुङ्गारश्च, दक्षिणबीजापोऽपरबीजापश्च, अपरगर्जभ उतरगर्जभव, एते षोडश वाताः । यत्र यथा जलधौ कालिकावातरदिने गर्जमानुकूलवाते निपुणनियगकसहिता निश्छिद्वपोता यथेप्सितं पचनं प्राप्नुवन्ति । जीवनिकाया गावो जं ते पालंति ते महागोवा । मरणाइभया उ जिणा निव्वाणवणं च पावंति ।। ९१६ ।। तो उगारण नमोऽरिहा भविअजीबलोगस्स । सव्वस्सेह जिनिंदा लोगुत्तमभावओ तह य ॥ ९१७॥ व्याख्या - गाथात्रयं निगदसिद्धमेव ॥ द्वारम् ३ ॥ एवं तावदुक्तेन प्रकारेण नमोऽर्हत्वहेतवे गुणाः प्रतिपादिताः, साम्प्रतं प्रकारान्तरेण नमोऽर्हत्व हेतुगुणाभिधित्सयाऽऽह— ristenery, इंदिआणि अ पंचवि । परीसहे उवस्सग्गे, नामयंता नमोऽरिहा ।। ९१८ ॥ व्याख्या – रागद्वेषकषायेन्द्रियाणि च पश्चापि परीषहानुपसर्गानामयन्तो नमोऽर्हा इति । तत्र 'रञ्ज रागे' रज्यते अनेन अस्मिन् वा रञ्जनं वा रागः, स च नामादिश्चतुर्विधः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा- आगमतो नोआगमतश्च, आगमतो रागपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतो ज्ञशरीर भव्य शरीर तद्व्यतिरिक्तभेदस्त्रिविधः, व्यतिरिक्तोऽपि कर्मद्रव्यरागो नोकर्मद्रव्यरागश्च कर्मद्रव्यरागश्चतुर्विधः- रागवेदनीयपुद्गला योग्याः १ बध्यमानका २ बद्धाः ३ उदीरणावलिकाप्राप्ताश्च ४, बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणामप्राप्ता बध्यमानकाः, निर्वृत्तबन्धपरिणामाः सत्कर्मतया स्थिता जीवेनाssस्मसात्कृता बद्धाः, उदीरणाकरणेनाऽऽकृष्योदीरणावलिकामानीताश्चरमा इति, नोकर्मद्रव्यरागस्तु कर्मरागैकदेशस्तदन्यो वा, तदन्यो द्विविधः - प्रायोगिको वैश्रसिकश्च प्रायोगिको कुसुम्भरागादिः, वैश्वसिकः सन्ध्या रागादिः, भावरागोऽप्यागमेत रभेदाद् द्विधैव, आगमतो रागपदार्थज्ञ उपयुक्तः, नोआगमतो रागवेदनीयकर्मोदयप्रभवः परिणामविशेषः, स च द्वेधा - प्रशस्तोऽप्रशस्तश्च, अप्रशस्तस्त्रिविधः - दृष्टिरागो विषयरागः स्नेहरागश्च तत्र त्रयाणां त्रिषष्ट्यधिकानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy