SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ॥२५॥ मावश्यक-नारिभद्रीयवृत्तिः उत्पन्नाऽणुप्पन्नो इत्य नयाऽऽइनिगमस्सऽणुप्पन्नो । सेसाणं उप्पन्नो जइ कत्तो, तिविहसामित्सा ॥ ८८८॥ व्याख्या-उत्पन्नश्वासावनुत्पन्नश्च स इति समानाधिकरणः, तेन नअविशिष्टेनाना (पा-२-१-६) कताकतादिवदुत्पन्नानुत्पन्ना, स्याद्वादिन एव एवंप्रकारः समासो युज्यते, नान्यस्यैकान्तवादिनः, एकत्रैकदा परस्परविरुद्धधर्मानभ्युपगमात्, आह-स्थाद्वादिनोऽपि कथमेकत्रैकदा परस्परविरुद्धधर्माभ्यास इति, उच्यते, 'एत्थ णय'त्ति अत्र नयाः प्रवर्तन्ते, ते च नैगमादयः सप्त, नैगमोऽपि द्विभेदः-सर्वसनाही देशसग्राही च, तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वान्नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः, 'सेसाणं उप्पण्णोति शेषा:-विशेषग्राहिणस्तेषां शेषाणां विशेपग्राहित्वात् तस्य धोत्पादव्ययवत्वात् उत्पादण्ययशून्यस्य वाम्भ्येयादिवदवस्तुत्वात् नमस्कारस्य च वस्तुत्वादुत्पन्न इति, आह-शेषाः सनहादयः, सनहस्य च विशेषमाहिरवं नास्तीति, उच्यते, तस्यादिनैगम एवान्तर्भावान दोष इति, अतः शेषाणामुत्पन्ना, 'जइ कत्तोति यद्युत्पन्नः कुतो इति, आह-'तिविह-सामित्ता' त्रिविषं च तत् स्वामित्वं चेति समासः, तस्मात्रिविधस्वामित्वात-त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः पाह-एवमप्येकत्रैकदा परस्परविरुधर्माभ्यासदोषस्तदवस्थ एव, न, अशेषवस्तुन एव तत्त्वतः सामान्यविशेषात्मकत्वात्, सामान्यधः सस्वादिभिरनुत्पादाद विशेषधः संस्थानानुपूादिभिरुत्पादाद, विजम्मितं चात्र भाष्यकता तत्तु नोच्यते प्रन्थविस्तरभवाद्, गमनिकामात्रमेवैतदिति गाथार्थ: ८८८ यदुक्त-'त्रिविधस्वामित्वादिति, तत् त्रिविधस्वामित्वमुपदर्शवनाहसमुट्ठाण १ वायणा २ लद्धिओ ३ पढमे नयत्तिए तिविहं। उज्जुसुय पहमपज सेसनया लद्धिमिच्छति ॥८८९॥ व्याख्या-समुत्थानतो वाचनातो लग्धितच नमस्कारः समुत्पद्यत इति वाक्यशेषः, सम्यक् सङ्गतं प्रशस्तं वोस्थानं रस्य, कस्य समस्थानम्, अन्यस्याभूतत्वात्तदाधारभूतत्वात प्रत्यासमत्वाद देहस्यैव गृह्यते इति, युक्तं च देहसमुत्थानं नमस्कारकारणं, तनावमाविरवान्यथाऽनुपपत्तेरिति, अतः समुत्थानतः १, वाचनं वाचना-परतः श्रवणम् अधिगम उपदेश इत्यनान्तरं, साप नमस्कारकारणं, तनावमावित्वादेवेति, अतो वाचनातः २, लन्धिः-सदावरणकर्मक्षयोपशमलक्षणा, सा च कारणं, तद्भावभावित्वादेव, अतो लग्धितश्च ३, पदान्तपयुक्तधशब्दो नयापेक्षया त्रयाणामपि प्राधान्यख्यापनार्थः । अत एवाह-पढमे गयत्तिए तिविहति प्रथमे नयत्रिकेऽशुद्धनैगमसाहव्यवहाराख्ये विचार्ये समुत्थानादि त्रिविधं नमस्कारकारणमिति, आह-प्रथमे नयत्रिकेऽशुद्धनैगमसनही कथं विविध कारणमिछतः ?, तयोः सामान्यमात्रावलम्बित्वाद्, उच्यते, 'आदिनेगमस्सऽणुप्पन्न' इत्यत्रेव प्रथमानयत्रिकात् तपोलकलितत्वात दोषः, 'उग्जुसुयपढमवजंति' ऋजुसूत्रः प्रथमवर्ज-समुत्थानाख्यकारणशून्य कारणवयमेवेच्छति, समुत्थानस्य व्यभिचारित्वात् , तद्भावेऽपि वाचनालब्धिशून्यस्यासम्भवात्, 'सेस नया लडिमिच्छति'ति शेषनया:-क्षवादयो लब्धिमेव एका कारणमिच्छन्ति, वाचनाया अपि व्यभिचारित्वात्, तथाहि-सत्यामपि वाचनायां लम्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नैवोत्पद्यते नमस्कारः, तस्यां सत्यामेवोत्पते, ततोऽसाधारणत्वात्सैव कारणमिति गाथार्थः ॥८८९ ॥द्वारम् १॥ इदानीं निक्षेपः, स च चतुर्धा-नामनमस्कारः स्थापनानमस्कारः द्रव्यनमस्कारः भावनमस्कारब, नामस्थापने सुगमे, शभग्यशरीरातिरिक्तद्रव्यनमस्काराभिधित्सयाऽऽहनिहाइ दव भावोवउत्तुज कुज संमदिही उ।(मूलदारं २)नेबाइ पयं (मू०३) दव्यभावसंकोअणपपत्थो ८९० ___ व्याख्या-निहवादिव्यनमस्कारः, नमस्कारनमस्कारवतोरव्यतिरेकात्, आदिशब्दात् द्रव्यार्थो वा यो मन्त्रदेवताद्याराधनादाविति, एत्थ दधनमोक्कारे उदाहरणं-वसंतपुरे णयरे जियसत्तू राया, धारिणीसहिओ ओलोयणं करेइ, दमगपासणं, अणुकंपाए नइसरिसा रायाणोति भणइ देवी, रण्णा आणाविओ, कपालंकारो दिण्णवस्थो तेहिं उबणीमो. सोय कच्छूए गहिएलओ, भासुर ओलग्गाविजइ, कालंतरेण रायाणए से रज दिणं, पेच्छा दंडभडभोइए देवयाययणपूयाओ करेमाणे, सो चिंतेइ अहं कस्म करेमि?, रण्णो आययणं करेमि, तेण देउलं कप, तत्थरण्णो देवीए य पडिमा कया, पडिमापवेमे आणीयाणि पुच्छति, माहइ, तुह्रो राया सकारेइ, सो तिसंझं अच्चेइ, पडियरणं, तुडेण राहणा से सबहाणगाणि दिण्णाणि, अन्नया राया दंडयत्ताए गओ तं सर्वतेउरहाणेसु ठवेऊणं, तत्थ य अंतेउरिया निरोह असहमाणिो तंव उवचरंति, सो नेच्छइ, ताहे ताओ भत्तगं नेच्छंति, पच्छा सणियं पविट्ठो, विवालिओ य,राया आगओ, सिहे विणासिओ। मन म्यनमस्कारे उदाहरणम्-वसन्तपुरे नगरे जितश राजा, धारणीसहितोऽवलोकनं करोति, नमकदर्शनम्, अमुकम्पपा नदीसरमा राजान इति भणति देवी, राज्ञाऽऽनीतः, कृताला दत्तवनसः उपनीतः, सच कच्चा गृहीतः, भास्वरमवलग्यते, कालान्तरेण राज्ञा तस्मै राज्यं दत्तं, दण्डभटभोजिकान देवतायतनपूजाः कुर्वतः प्रेक्षते, स चिन्तयति-अहं करय करोमि !, राज्ञ भायतनं करोमि, तेन देवकुलं कृतं, तत्र राज्ञो देव्याश्च प्रतिमा कृता, प्रतिमाप्रवेश आनीते पृच्छतः, कथयति, तुष्टो राजा सत्कारपति, स त्रिसन्ध्यमर्चवति, प्रतिचरणं, तुष्टेन राज्ञा तमै सर्वस्थानानि दत्तानि, अन्यदा राजा दण्डयात्राये गतः तं सर्वेष्यन्तःपुरस्थानेषु स्थापयित्वा, तत्र चान्तःपुर्यः निरोधमसहमानाम्तमेवोपचरन्ति, स नेच्छति, तदा ता भक्तं नेच्छन्ति, पत्रात् शनैः प्रविष्टः, विनष्टश्न, राजा आगतः, शिष्टे विनाशितः । * नेदं प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy