SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ मावश्यक हारिभद्रीयवृत्तिः ॥२४३॥ मोहनं मोह:- वितथग्रहः न मोहः अमोह:- अवितथग्रहः, शोधनं-शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः, सत्जिनाभिहितं प्रवचनं तस्य भावः सद्भावः तस्य दर्शनम् - उपलम्भः सद्भावदर्शनमिति, बोधनं बोधिरित्यौणादिक इत्, परमार्थसम्बोध इत्यर्थः, अतस्मिंस्तदध्यवसायो विपर्ययः न विपर्ययः अविपर्ययः, तत्त्वाध्यवसाय इत्यर्थः, सुशब्दः प्रशं सायां, शोभना दृष्टिः सुदृष्टिरिति एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति : गाथार्थः ॥ ८६१ ॥ श्रुतसामायिकनिरुक्तिप्रदर्शनायाऽऽह अक्खर सभी संमं सादियं खलु सपज्जवसियं च । गमियं अंगपविद्धं सत्तवि एए सपडिवक्खा ॥ ८६२ ॥ व्याख्या -- इयं च गाथा पीठे व्याख्यातत्वान्न वित्रियते ॥ देशविरतिसामायिकनिरुक्तिमाह- विरावर संबुडबुडे बालेपडिए चेव । देखेकदेसंबिरई अणुधम्मो अगारधम्मो य ॥ ८६३ ॥ व्याख्या - विरमणं विरतं भावे निष्ठाप्रत्ययः, न विरति:-- अविरतिः, विरतं चाविरतिश्च यस्यां निवृत्तौ सा विरताविरतिः, संवृतासंवृताः सावद्ययोगा यस्मिन् सामायिके तत् तथा संवृतासंवृताः - स्थगिता स्थगिताः परित्यक्तापरित्यक्का इत्यर्थः, एवं बालएण्डितम् उभयव्यवहारानुगतत्वादू, देशैकदेशविरतिः प्राणातिपातविरतावपि पृथिवीकायाद्यविरतिगृह्यते, अणुधर्मो बृहत्साधुधर्मापेक्षया देशविरतिरिति, अगारधर्मश्चेति न गच्छन्तीत्यगाः - वृक्षास्तैः कृतमगारं गृहं तथोगादगार-गृहस्थः तद्धर्मश्चेति गाथार्थः ॥ ८६३ ॥ सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाह - सामाइयं समइयं सम्भवाओ समास संखे बो । अणवां च परिण्णा पञ्चकखाणे य ते अड ॥ ८६४ ॥ व्याख्या- 'सामायिकम्' इति रागद्वेषान्तरालवतीं समः मध्यस्थ उच्यते, 'अय गता' विति अयनम् अय:-गमनमित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकष्ठक्प्रत्ययोपादानात् सामायिकम्, एकान्तोपशान्तिगमनमित्यर्थः, समयिकं समिति सम्यक्शब्दार्थ उपसर्गः सम्यगयः समयः - सम्यग् दयापूर्वकं जीवेषु गमनमित्यर्थः, समयोस्यास्तीति, 'अत इनि ठना ( पा० ५-२-११५ ) विति ठन् समयिकं सम्यग्वादः रागादिविरहः सम्यक् तेन तत्प्रधानं वा वदनं सम्यग्वादः, रागादिविरहेण यथावद् वदनमित्यर्थः, समासः 'असु क्षेपण' इति असनम् आस:-क्षेप इत्यर्थः, संशब्दः प्रशंसार्थः शोभनमसनं समासः, अपवर्गे गमनमात्मनः कर्मणो वा जीवात् । पदत्रयप्रतिपत्तिवृत्त्या क्षेपः समासः, 'संक्षेपः' संक्षेपणं संक्षेपः स्तोकाक्षरं सामायिकं महार्थं च द्वादशाङ्गपिण्डार्थत्वात्, अनवद्यं चेति अवद्यं पापमुच्यते नास्मिन्नवद्य मस्तीत्यनवद्यं सामायिकमिति, परिः - समन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकमिति, परिहरणीयं वस्तु वस्तु प्रति आख्यानं प्रत्याख्यानं च त एते सामायिकपर्याया अष्टाविति गाथार्थः ॥ ८६४ ॥ एतेषामष्टानामप्यर्धानामनुष्ठादन् यथासङ्ख्पेनाष्टावेव दृष्टान्तभूतान् महात्मनः प्रतिपादयन्नाह - ददते मे कालयैपुच्छा चिलय अन्तेये । धम्म इला तेयलि सामाइए अडदाहरणा ॥ ८६५ ॥ व्याख्या - दमदन्तः मेतार्यः कालकपृच्छा चिलातः आत्रेयः धर्मरुचिः इला तेतलिः, सामायिकेऽष्टावुदाहरणानीति गाथासमुदायार्थः ॥ ८६५ || अवयवार्थस्तु कथानकेभ्योऽवसेय इति, तत्र यथोद्देशं निर्देश इति सामायिकमर्थतो दमद * 'इणू गतौ इति प्र० + आयः प्र० उपशमविवेकसंवररूपं. न्तानगारेण कृतमिति तच्चरितानुवर्णनमुपदेशार्थमद्यकालमनुष्याणां संवेगजननार्थं कथ्यते- हेत्थिसीसए नगरे राया दमदंतो नाम, इओ य गयपुरे नगरे पंच पंडवा, तेसिं तस्स य वइरं, तेहिं तस्स दमदमंतस्स जरासंधमूलं रायगिहं गयस्स सो विसयो लूडितो दो य, अण्णदा दमदंतो आगओ, तेण हस्थिणापुरं रोहितं, ते भएण ण णिति, तओ दमदंतेण ते भणिया - सियाला चेव सुण्णगत्रिसए जहिच्छियं आर्हिडंह, जाव अहं जरासंधसगासं गओ ताव मम विसयं लुडेह, इदाणिं णिफिडह, ते ण णिंति ताहे सविसयं गओ । अण्णया णिविण्णकामभोगो पचइओ, तओ एगल्लविहारं पडिaort विहरंतो हथिणापुरं गओ, तस्स बाहिं पडिमं ठिओ, जुहिट्ठिलेण अणुजन्ताणिग्गएण बंदिओ, पच्छा सेसेहिवि उहि पंडवेहिं बंदिओ, ताहे दुज्जोधणो आगओ, तस्स मणुस्सेहिं कहियं जहा -एस सो दमदेतो, तेण सो मातुलिंगेण आहओ, पच्छा संधावारेण एंतेण पत्थरं २ खिवंतेण पत्थररासीकओ, जुधिट्ठिलो नियन्तो पुच्छर - एत्थ साहू आसि १ इस्तिशीर्षे नगरे राजा दमदन्तो नाम, इतन गजपुरे नगरे पञ्च पाण्डवा:, तेषां तस्य च वैरं, तैस्तस्य दमदन्तस्य जरासन्धमूकं राजगृहं गतस्य स विषय लुण्डितो दग्ध, अम्बदा दमदम्स आगतः तेन हस्तिनागपुरं रुद्धं, ते भयेन न निर्यान्ति, ततो दमदम्शेन ते भणिता:-शुगाला इव शून्यविषये यथेच्छमहिण्डवं बावदहं जरासन्धसकाशं गतस्तावन्मम विषयं लुष्टयत, इदानीं निर्गच्छत, ते न निर्गच्छन्ति तदा स्वविषयं गतः । श्रम्यदा निर्विण्णकामभोगः प्रब्रजितः, तस एका किविहारं प्रतिपक्षो विहरन् हस्तिनागपुरं गतः, तस्मात् बहिः प्रतिमया स्थितः । युधिष्ठिरेणानुयान्नानिर्गतेन वन्दितः पश्चात् शेपेरपि चतुर्भिः पाण्डवैर्वन्दितः, तदा दुर्योधन भागतः, तस्य मनुष्यैः कथितं यथा एष स दमदम्सः तेन स बीजपूरेणाहतः पश्चात्स्कन्धावारेणागच्छता प्रस्तरं १ क्षिपता प्रस्तरराशीकृतः, युधिष्ठिरो निवृत्तः पृच्छति साधुरासीत्. * दमदमंतो प्र० + आहिंडिया प्र० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy