________________
भर्तृहरिकृत-शतकत्रयम् चलन्मेहोदाराद् विषयविधिजाताद्' अनशिनः अभोक्तारो न जाताः । चलच्च तन्मेहं लिङ्ग च तेन उदारात् श्रेष्ठात् विषयविधिजातात् अनशिनो जाताः । अश्नाती(?श्नन्ती)त्येवंशीलोला) अशिनः, न अशिनः अनशिनः अभोक्तार इत्यर्थः । एतेन बहून् मृतान् दृष्ट्वा वयमपि भोगेष्वसक्ता एव जाताः ? । मरणभयं दृष्ट्वा न भोगवाञ्छा त्यक्ता इत्यर्थः ॥ ३० ॥ ____ अथ संसारे निर्ममताप्रधानत्वं वर्णयति२९. भव्यं भुक्तं ततः किं कदशनमथ वा वासरान्ते ततः किं ___कौपीनं वा ततः किं सितममलतरं पट्टकूलं ततः किम् । एका भार्या ततः किं शतगुणगणिता कोटिरेका ततः किं
चैको भ्रान्तस्ततः किं गजतुरगशतैर्वेष्टितो वा ततः किम् ॥३२॥ भव्यं भुक्तमित्यादि । भव्यं शाल्योदनादि भुक्तं ततस्तस्मात् किं संजातम् । क्षणिका तृप्तिरुत्पन्ना । अथ वा कदशनं नीरसान्नं वासरान्ते दिनान्ते प्राप्तं ततः किं जातम् । वा अथ वा को(कौ)पीनं कक्षापटः [ परिहितं ततः किं जातम् , अथवा ] सितं श्वेतममलतरं पट्टकूलं अत्युज्वलं दुकूलं परिहितं ततः किं जातमित्यर्थः । सर्वस्यानित्यत्वात् । एका भायो ततः किं जातम् । वा शतगुणगणिताः शतशो यावत्कोटिसंख्या भार्या जातास्ततः किम् । एकया यत् कार्य कोटिगुणितयापि तत् कार्यम् । एकः शरीरमात्रो भ्रान्तः पृथ्वीं गतस्ततः किं जातम् , वा अथ वा गजतुरगशतैर्वेष्टितस्ततः किं निष्पन्नमेव । स्वतः एक एव । अन्ये सर्वे बाह्या भावास्तैर्न किंचित् स्वार्थसाधनं भवतीत्यर्थः ॥ ३२ ॥
अथ नारीस्वरूपमात्मनिन्दया निरूपयति३०. अलमतिचपलत्वात् खप्नमायोपमत्वात्
परिणतिविरसत्वात् संगमेन प्रियायाः। इति यदि शतकृत्वस्तत्त्वमालोकयामि । तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा ॥ ३३ ॥
अहं यदि शतकृत्वः शतवारान् इति तत्त्वमालोकयामि तत्त्वं विचारयामि । तदपि हरिणाक्षी मृगलोचनां कामिनी अन्तरात्माऽन्तर्यामी न विस्मरति मानसान्न मुञ्चतीत्यर्थः । इतीति किम् ? । अतिचपलत्वात् चाञ्चल्यस्वभावात् । स्वममायोपमत्वात् स्वमं च माया च स्वप्नमाये स्वप्नमायाभ्यामुपमीयते स्वप्नमायोपमं तस्य भावस्तत्त्वं तस्मात् । परिणतिविरसत्वात् परिणामेन नीरसत्वात् । प्रियायाः संगमेन अलं पूर्यताम् । एवं बहुधा विचारयामि । तथापि नारी नो विस्मरामि । इत्यात्मनो निन्दानिरूपणम् । अलं भूषणपर्याप्तवारणेषु ॥ ३३ ॥
॥ इति शेषकाव्यटीका ॥ श्रीः ॥ शुभं भवतु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org