________________
भर्तृहरिकृत-शतकत्रयम् जरास्वरूपमाह२३. गात्रं संकुचितं गतिविगलिता दन्ता विनाशं गता ___ दृष्टिभ्रंश्यति रूपमेव हसितं वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनो भार्या न शुश्रूषते
हा कष्टं जरयाऽभिभूतपुरुषः पुत्रैरवज्ञायते ॥ २५ ॥ हा इति खेदे । कष्टं जरां प्रति धिक् । कथम् ? । जरया अभिभूतः जराव्याप्तः पुमान् पुत्रैरपि अवज्ञायते निन्द्यते । यया जरया गात्रं संकुचितं कृशीकृतम् । गतिर्विगलिता भमा । जरातो दन्ता विनाशं गताः पतिताः । जरया दृष्टिभ्रंश्यति निस्तेजा भवति । रूपमेव हसितं गतम् । च पुनः वक्त्रं मुखं लालायते लालायुक्तं भवति । बान्धवजनः तस्य वाक्यं न करोत्येव । तं पुरुषं पत्नी न शुश्रूषते शुश्रूषां न करोति । इति कारणात् धिक् ॥ २५ ॥
अथ नगरवनावस्थयोः साम्यमाह२४. एकैव काचिन्महतामवस्था सूक्ष्माणि वस्त्राण्यथ वा च कन्था ।
कराग्रलग्नाऽभिनवा च बाला गङ्गातरङ्गेष्वथ वाऽक्षमाला ॥ २६ ॥
महतां काचिदवस्था एकैव समानैव । कथम् ? । सूक्ष्माणि वस्त्राणि भवन्तु । वा अथ वा कन्था भवतु । अथ बाला नारी कराग्रलग्ना भवतु । अथ वा गङ्गातरङ्गेषु अक्षमाला
भवतु ॥२६॥
अधुना योगीन्द्रवाक्यस्वरूपमाह - २५. न भिक्षा दुःप्रापा पथि पथि मठारामसरितः
फलैः संपूर्णा भूमंगविटपिचर्माधिवसनम् । सुखे वा दुःखे वा सदृशपरिपाकः खलु तदा
त्रिनेत्रं कस्त्यक्त्वा धनलवमदान्धं प्रणमति ॥ २७ ॥ तदा तर्हि कः पुमान् त्रिनेत्रं त्यक्त्वा धनलवमदान्धं प्रणमति हरं विहाय धनिनं प्रणमति । कथम् ? । भिक्षा न दुःप्रापा । पथि पथि मार्गे मार्गे मठारामसरितः सुलभा एव । फलैर्भूः पृथिवी संपूर्णा वर्तते । मृगविटपिचर्मणामपि वसनं मृगत्वक् वृक्षत्वक् तयोर्वस्त्रं वर्तते । सुखे वा दुःखे सदृशपरिपाक एव । ततः को धनिनां चाटुत्वं कुरुते ॥ २७॥ __ अथ वनवासिनां सुखस्वरूपमाह२६. स्थितिः पुण्येऽरण्ये सह परिचयो हंसहरिणैः ।
फलैर्मेध्या वृत्तिः प्रतिनदि तलान्येव दृषदः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org