________________
अथ तृतीयं वैराग्यशतकम् ।
अथ वैराग्यशतकमाहदिक्कालाधनवच्छिन्नानन्तविज्ञानमूर्तये ।
खानुभूत्येकैमानाय नमः शान्ताय तेजसे ॥१॥
तस्मै शान्ताय तेजसे परब्रह्मणे नमः । किंविशिष्टाय शान्ताय (ख. च. कथंभूताय) तेजसे ?। स्वानुभूत्येकमानाय स्वकीयायाः अनुभूतेरनुभवात् एकं मानं यस्य स स्वानुभूत्येकमानस्तस्मै । पुनः किंविशिष्टाय शान्ताय तेजसे ? । दिक्कालाधनवच्छिन्नानन्तविज्ञानमूर्तये दिक् च कालश्च दिक्कालौ, ताभ्यां दिक्कालाभ्यां अनवच्छिन्ना अज्ञाता अनन्ता विज्ञानस्य मूर्तिर्यस्य स दिक्कालाधनवच्छिन्नानन्तविज्ञानमूर्तिः तस्म ॥ १ ॥
अथ गुणहीनतास्वरूपमाहबोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः।।
अज्ञानोपहतान्ये जीर्णमङ्गे सुभाषितम् ॥ २॥ बोद्धारो ज्ञातारो मत्सरग्रस्ताः विरोधव्याप्ताः। प्रभवो नृपाः स्मयदक्षिताः गर्वकलङ्किताः। चान्यत् । अन्ये अज्ञानोपहताः [ख. अबोधोपहताः] । अङ्गे शरीरे सुभाषितं जीणं स्मृतिहीनम् । एते प्रकाराः महिमानं न प्राप्नुवन्ति ॥ २ ॥ संसारस्यानित्यतामाह
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौवैश्विरपरिगृहीताश्च विषया ___ महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ३ ॥ संसारोत्पन्न चरितं कुशलं नानुपश्यामि । पुण्यानां विपाकः फलं विमृशतो मे मम भयं जनयति संसारपरिभ्रमणत्वात् । कथं बिभेषि ? । चान्यत् । महद्भिः पुण्यौधैः महान्तः पञ्चेन्द्रियगोचराः विषयाः चिरपरिगृहीताः सन्तः विषयिणां प्राणिनां व्यसनं दातुमिव जायन्ते ॥ ३ ॥ .. ट. कोशे श्लोको नास्ति । अवतारिका परं दृश्यते । १ख. घ. चिन्मात्र। २.ख.
. घ. त्यैक। ३ ख. घ. अबोधोप। ४ज. मन्ये। ५ ग. च. छ. पुण्योधैः । ६ख. घ. व्यसनिनाम् ।
११ शतकत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org