________________
१०२
ज्ञानबिन्दुप्रकरणस्य [पृ० ११. पं० २८मध्ये योऽपायोंऽशः तन्मतिज्ञानं परोक्षं प्रमाणमिति । अवग्रहेहयोरनिश्चितत्वान्न समस्ति प्रामाण्यम् । स चापायः सद्व्यानुगतो यदि न भवति तन्मिथ्यादृष्टेरिव अशुद्धदलिककलुषितः, अतो योऽपायः सद्रव्यानुवर्ती सप्रमाणं मतिभेदः। यदा तर्हि दर्शनसप्तकं क्षीणं भवति तदा सद्रव्याभावे कथं प्रमाणता श्रेणिकाद्यपायांशस्य ? । उच्यते - सद्रव्यतया इत्यनेन अर्थत । इदं कथ्यते-सम्यग्दृष्टर्योऽपायांशः इति । भवति चाऽसौ सम्यग्दृष्टेरपायः । अथवा एक
शेषोऽत्र दृष्टव्यः..."इदमुक्तं भवति- अपायसद्व्यानुगतो यः अक्षीणदर्शनसप्तकस्य स परिगृहीतः एकेन अपायद्रव्यशब्देन, तथा द्वितीयेन अपायो यः सद्रव्यं शोभनं द्रव्यम् , कश्चापायः सद्व्यम् ? यः क्षीणदर्शनसप्तकस्य भवति । एतेनैतदुक्तं भवति- सम्यग्दर्शनिनः क्षीणाक्षीणदर्शनसप्तकस्य योऽपायो मतिज्ञानं तत् परोक्षं प्रमाणम् ।” तत्त्वार्थ० टी० १११ । " तत्त्वार्थ० यशो० ।
पृ० ११. पं० २८. 'सम्यक्त्वानुगतत्वेन' - "सदसतोरविशेषाद् यदृच्छोरुपलब्धेरुन्मत्तवत्" तत्त्वार्थ० १।३३।
"अविसेसिया मइ च्चिय सम्मदिहिस्स सा मइण्णाणं । मइअन्नाणं मिच्छद्दिहिस्स सुयं पि एमेव ॥ सद-सदविसेसणाओ भवहेउजदिच्छिओवलम्भाओ।
नाणफलाभावाओ मिच्छद्दिट्ठिस्स अण्णाणं ॥" विशेषा० ११४,११५,३२९,३३० । पृ० ११. पं० २९. 'संशयादीनामपि -
"नाणं चिय संसयाईया ॥ ३१४ ॥ नास्माभिः 'समीहितवस्तुप्रापकं ज्ञानं, इतरदज्ञानम्' इत्येवं व्यवहारिणां प्रमाणाप्रमाण॥ भूते ज्ञानाऽज्ञाने विचारयितुमुपक्रान्ते, किन्तु ज्ञायते येन किमपि तत् सम्यग्दृष्टिसंबन्धि ज्ञानम् , इत्येतावन्मात्रकमेव व्याख्यातुमभिप्रेतम् ; वस्तुपरिज्ञानमात्रं तु संशयादिष्वपि विद्यते इति न तेषामपि समग्दृष्टिसंबन्धिनां ज्ञानवहानिः । कथं पुनः संशयादयो ज्ञानम् ?- इत्याह
वत्थुस्स देसगमगत्तभावओ परमयप्पमाणं व ।।
किह वत्थुदेसविण्णाणहेयवो, सुणसु तं वोच्छं॥३१५॥ वस्त्वेकदेशगमकाश्च संशयादयः ततस्ते ज्ञानम् । अत्र हेतोरसिद्धतां मन्यमानः परः पृच्छति कथं वस्त्वेकदेशविज्ञानहेतवः संशयादयः ? । वस्तुनो निरंशत्वेन देशस्यैवाभावाद् न त एकदेशप्राहिणो घटन्त इति परस्याभिप्रायः । आचार्यः प्राह - शृणु । यथाप्रतिज्ञातमेवाह -
इह वत्थुमत्थवयणाइपञ्जयाणंतसत्तिसंपन्न ।
तस्सेगदेसविच्छेयकारिणो संसयाईया ॥३१६ ॥ इह वस्तुनो घटादेर्मेन्मयत्व-पृथुबुध्नत्व-वृत्तत्व-कुण्डलायतग्रीवायुक्तत्वादयोऽर्थरूपाः पर्यायाः अर्थपर्याया अनन्ता भवन्ति । घट-कुट-कुम्भ-कलशादयस्तु वचनरूपाः पर्याया वचनपर्यायास्तेऽप्यनन्ता भवन्ति । आदिशब्दात् परव्यावृत्तिरूपा अप्यनन्ता गृह्यन्ते । न खलु वयं निरंशवस्तुवादिनः, किन्तु यथोक्तानन्तधर्मलक्षणवस्तुनोऽनन्ता एव देशाः
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org