________________
[पञ्चमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं
श्रीदेवचन्द्र इति जात्यमणिर्वणिक्षु प्राग्वन्यवर्तत रसात् तरसा न दानात्।। खस्वामिनापि च निषिद्धतथाप्रवृत्तिर्मन्दोऽपि नाम न महानवगृह्य साध्यः॥५१॥ तत्कारिताऽऽहंतनवाकृतिसत्प्रतिष्ठां कृत्वा निधाय विबुधेन्द्रपदं स वीरे। जेष्ठस्थितिद्वयविधेरनु कारकोऽभूदिच्छाविहारवनवासमहोत्सवानाम् ॥१२॥ मार्गेऽथ साहिवचसा प्रभुमन्वितायां चम्बां तु सङ्घजनकारितभोजनेषु। 5 यन्ता बलात् सुहितमाशयति स्म पिण्डं लेहच्युतिलपितबाहुरिभाधिराजम् ॥५३॥ नत्वाऽन्तरिक्षजिनपार्श्वपदो क्रमेण देवर्षिराज इह सङ्घघनाग्रहेण । बर्हानपूर्वनगरं शुचिमासि जाग्रन्नीलाभ्रपतिपरिवेषमिवाधिजग्मुः ॥ ५४॥ देवे स्थितेऽनुभवनं नवनन्दिकृत्यदानार्हतार्चनतपःकरणोत्सवेषु । सजीकृतेर्निशि विपल्ययना अपीयुः संलक्ष्यपल्ययनवध्रपदास्तुरङ्गाः ॥५५॥ 10 पर्वखिहाहतविहारनवोपहारसङ्गच्छदङ्गधरजङ्गमतोत्तरङ्गः।। प्रोचैर्महेषु सहसाऽभिवहंस्त्रिलोक्या रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥५६॥ राजन्यजन्यतदजन्यपरंपराभिः क्षुब्धो न सत्त्वजलधिजलधीरणाभिः।। प्राचीनदेवजनुषोऽनुगतेन सूरिः शेषेण तेजस इवोल्लसता रराज' ॥ ५७॥ मासानतीत्य चतुरोऽस्य पुनर्धरित्रीसङ्घाग्रहाजिगमिषोरथ तत्प्रयाणे। सञ्जग्मिवान् पथि सपल्ययनः शिवाय श्रीवृक्षकी पुरुषकोन्नमितानकायः ॥५८॥ सूरेरनुव्रजनकृज्जनभक्तिकार्ये यः सङ्घनायकतया समयेऽभिषिक्तः। तस्मै हरिः क्षितिभृतापि ददे वपुष्मान् उच्चैःश्रवा जलनिधेरिव जातमात्रः ॥१९॥ चाषोऽचलत् फलभुगस्य तदाऽसव्यः श्रव्याणि देव्यपि चकार रुतानि सव्यां। भव्यान्युवाच रुचिवल्गितहेषितेन मिश्रं दधद्दशनबर्बुरशब्दमश्वः ॥ ६०॥ 20
याने गुरोरनुगमाभिगमैर्नृपाणां सङ्घस्य चानुचलने स्खलनेऽचलायाम् । १ 'वीरे' वीरविजयकवौ।।
६ 'श्रीवृक्ष-' हृद्-वक्त्रावर्ती हयः श्रीवृक्षकी । २-अभ्र- "अभ्रं तु त्रिदिवे गगनेऽम्बुदे" इति अनेकार्थः
७'-पुरुषक-'पुरुष एव पुरुषकः तेन उन्नतः ऊर्वावस्थितः [है. अने० सं० कां० २ श्लो० ३८२] अभ्रम् अभ्रकम् ।
अग्रकायः यस्य सः।
"पश्चिमेनाप्रपादेन भुवि स्थिवाऽग्रपादयोः। ३ 'पर्वसु चतुर्दश्यादिषु ।
ऊर्ध्वप्रेरणया स्थानम्-अश्वानां पुरुषः स्मृतः" ॥ ४ 'जलधीरणाभिः' जडधियां सागरपाक्षिकाणां वा ईरणाभिः। ८ 'अपसव्यः' दक्षिणः। ५'-धरित्री-' धरित्रीपदेन गूर्जरत्रादेशः।
९ 'सव्या' वामा। .
15.
1 मा. पं० स० श्लो. ४९ चतुर्थः पादः चतुर्थत्वेन । 2 मा. पं० स० श्चो० ५० चतुर्थः पादः चतुर्थत्वेन ।
मा. पं० स० श्लो. ५१ चतुर्थः पादः चतुर्थत्वेन । माघे 'नेहस्रुति'-इति भेदः।
4 मा० पं० स० श्लो० ५२ चतुर्थः पादः चतुर्थत्वेन ।
5 मा. पं० स० श्लो०५३ चतुर्थः पादः चतुर्थत्वेन । माघे '-वर्ध' इति ।
6 मा. पं० स० श्लो. ५४ चतुर्थः पादः चतुर्थत्वेन ।
7 मा. पं० स० श्लो० ५५ चतुर्थः पादः चतुर्थत्वेन । 8 मा. पं० स० श्लो०५६ चतुर्थः पादः चतुर्थत्वेन । श्रीवृक्षकी अश्वविशेषः । तल्लक्षणं च"वक्षोभवावर्त चतुष्टयं च कण्ठे भवेद् यस्य च रोचमानः ।
श्रीवृक्षकी नाम हयः स भर्तुः श्रीपुत्रपौत्रादिविवृद्धये स्यात्" । इत्यादि सविस्तर वर्णनं माघस्य मल्लिनाथीयवृत्तितोऽवबोद्धव्यम् ।
9 मा. पं० स० श्लो० ५७ चतुर्थः पादः चतुर्थत्वेन । 10 मा. पं० स० श्लो. ५८ चतुर्थः पादः चतुर्थत्वेन । माघे 'दशनचर्चुरशब्द- इति मेदः।