________________
[ पञ्चमः सर्गः ]
महोपाध्यायश्रीमेघविजयविरचितं
५१
गत्वाऽऽतपत्रितफणागणमस्य पद्मं वक्त्रं श्रियः सभयकौतुकमीक्षते स्म' ॥ १७ ॥ निन्ये विभुर्मणिमयप्रतिमाः प्रतिष्ठां सङ्घस्तदर्चनमहो स्थितिरुत्तमानाम् । व्याप्तौ भुवोऽपि वरदीपनचन्दनानि गण्डस्थली : शुचितया न चुचुम्बुरासाम् ॥ १८ ॥ कर्पूरपूर्णवरवर्णरसानुलेपैर्देवार्चनाय सुगतागतचञ्चलाक्षीः ।
आलिङ्गयन् व्रतिवरा रभसा रसार्द्रगण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥ १९ ॥ 5 [ पाठान्तरम् ]
अन्योन्य भोजनविधानकृतावधानः सङ्घो न नैकपुरजः प्रतिगन्तुमैच्छत् । इभ्यैर्विना वितरणेऽतिशयं वारे संङ्घर्षिणा सह गुणाभ्यधिकैर्दुरासम् ॥ २० ॥ स्थित्वा दिनानि कतिचित् प्रतिजग्मुषोऽस्य सुरेरथो पथि जनैर्मिलिता जनानाम् । बर्हांनपूर्वनगरान्नगराजसत्कपादा इवाधिवभुरावलयो रथानाम् ॥ २१ ॥ बनपूर्जनकृताग्रहतस्त्वराभिरागन्तुकं सबहुसङ्घगुरुं निशम्य । तत्रोत्सवोच्छ्रितपतत्रितदूष्यराजितारावलीविरचनैर्व्यरुचन्निवासाः ॥ २२ ॥ आनन्दनन्दकतयाभिनदत्सु नान्दीनादेषु सम्मदकलै धवलैर्वधूनाम् ।
15
आस्तां जनः क्षणमवापि न चापि रात्रौ निद्रासुखं वसनसद्मसु राजदारैः ॥ २३ ॥ राजन्यराजिगजवाजिविराजिसङ्घ निर्दिश्यमानपदसूरिवरप्रवेशे । तद्विस्मयस्मितमुखी विविधक्रियाभिः शांतोदरी युवहशां क्षणमुत्सवोऽभूत् ॥ २४ ॥ सर्वत्र चित्रशतपत्रमुखीभिरुचैर्निमीयमाणबहुमङ्गल संविधानैः ।
१ - फणा - ' " गोविषाणे फणा ज्ञेया भुजंगस्य फणः फणा । फणा जटा फणा तृष्णा फणा मन्थानकुण्डली” ॥ इति अनेकार्थ-मञ्जरी [ श्लोकाधि० श्लो० ९०]
२ 'वक्त्रम्' अस्य पार्श्वप्रभोः वक्त्रं पद्ममिव इति लुप्तोपमा । ३ 'व्याप्तौ' भूव्यापनेऽपि केसरादेः मर्यादानतिक्रमः । प्रतिमानां नैर्मल्यं ज्ञापितम् ।
४ 'शुचि - ' ब्रह्मचारी सदा शुचिः ।
५ 'खवारे' इभ्यैः खवारे स्वसमये विशेषात् दानशौण्डैर्भाव्यमिति भावः ।
६ 'संघर्षिणा' संघव ऋषिश्व संघर्षिः । सर्वो द्वन्द्वो विभाषया एकवद् इति ।
७' - दुरासम्' संघर्षिणा सह वितरणे दाने अतिशयं विना -दुःखेन स्थीयते यदा ते अधिकाधिकं दद्युः तदैव ते सुखिता भवन्ति
1 मा० पं० स० श्लो० १७ चतुर्थः पादः चतुर्थतया । माघे 'वक्त्रश्रियः' इति भेदः ।
10
2 मा० पं० स० श्लो० १८ चतुर्थः पादः चतुर्थतया । 3 पूर्ववत् ।
4 मा० पं० स० श्लो० १९ चतुर्थः पादः चतुर्थतया ।
अन्यथा दुःखिताः स्युः इति तेषां अधिकदानरसिकत्वं ज्ञापितम् ।
८ ' - उत्सवोच्छ्रित' उत्सवेन हेतुना उच्छ्रितानि उन्नीतानि । पत्रं पक्षः तद्वद् आचरितानि दूष्याणि पटमण्डपाः तेषां श्रेणिः तस्यां तारावलीविरचनैः मुक्ताग्रथनैः । तारावलीनां रज्जुश्रेणीनां विरचनैर्बन्धनैः उड्डयनाय उद्यता इति भावः । " तारा मुक्तादिसंशुद्धी तरले शुद्धमौक्तिके" इति विश्वः [ विश्व • रान्तव० श्लो० ४१] " तारावली रज्जुसंततिः" इति केचित् । " दूष्यं वस्त्रे च तद्गृहे " इति विश्वः [ विश्व • यान्तव० श्लो० २९] 'व्यरुचन्' “घुद्योऽद्यतन्याम्" [ ३ | ३ | ४४ है ० ] इति परस्मैपदम् ।
९ आचार्यहेमचन्द्रस्तु स्वीयदेशी नाममालाटीकायां कृशार्थस्य छातशब्दप्रतिरूपस्य 'छाअ' शब्दस्य विवरणप्रसङ्गे एनं चतुर्थ पादमित्थं निर्दिशति - "छातोदरी युवदृशां क्षणमुत्सवोऽभूत्"देशीनाममाला वर्ग ३, गाथा ३३ ।
5 मा० पं० स० श्लो० २० चतुर्थः पादः चतुर्थतया । माघे 'अभिबभुः' इति ।
7 मा० पं० स० श्लो०
6 मा० पं० स० छो० २१ चतुर्थः पादः चतुर्थतया । २२ चतुर्थः पादः चतुर्थतया । २३ चतुर्थः पादः चतुर्थतया ।
8 मा० पं० स० श्लो०