________________
५०
5
10
देवानन्दमहाकाव्यम् ।
[ पञ्चमः सर्गः ]
प्रीत्योल्लसन्निव समाश्रयणेऽस्य जात्यश्चित्रं चकार पदमर्द्धपुलालयेन' ॥ १० ॥ विम्बाभिषेचनदिदृक्षुनरेन्द्रसान्द्रपश्चाद्वे लोहलचलन्त्तुरगप्रणुन्नः । पूतः प्रभोरिव पदैर्दिवमाप्तुमिच्छुः पांशुर्दिशां मुखमतुच्छयदुत्थितोऽद्रेः ॥ ११ ॥ सूरिस्ततोऽथ नगरान्नगराजितेऽगात् द्रङ्गेऽवरङ्गपदभाजि जनैरभाजि । तन्नयुञ्छन स्थितिरतस्तदलं विरेजुर्मुक्ताफलप्रकर भाञ्जि गुहागृहाणि ॥ १२ ॥ उत्साहिसाहितनयप्रतिशासनेन रङ्गतुरङ्गचतुरङ्गचमूयुजाऽस्मिन् । सङ्घेन सार्द्धमयमाश्रयदुच्चचूलं स्वावास भागमुरगाशनकेतुयैष्ट्या ॥ १३ ॥ ऐरावती तनुरुचं शुचिंसम्भवेन विभ्राणमेनमुदयेन घनायमानम् । संवीक्ष्य कोपि न परत्र जनः स्म तेजो-वर्द्धिष्णुमाश्रयमना गतमभ्युपैति ॥ १४ ॥ ज्येष्ठस्थितौ स्थितमदुः स्थितमुग्रलक्ष्मीं संराडुमीशमिह धर्ममहोत्सवेषु । ऋष्टुं महोदयमिव खजनेन दूरादुद्वाहुनाऽऽजुहुविरे मुहुरात्मवः ॥ १५ ॥ विश्वेक्षणक्षणजरूप्य कदक्षिणाभिर्देशीभिधान्वयविधामभिधारयन्तः । श्राद्धास्तदार्थिजनकल्पितदानकल्पैः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ १६ ॥ उन्नीय पुण्यमपनीयमपुण्यमेवं पार्श्व निनंसुरगमद् गुरुरन्तरिक्षम् ।
१- पुला' पुला नाम द्रुताद्यनेकापरनामा हयानां गतिविशेषः । २ ' - पश्चाद्वलोद्बलच - ' "वल धातुः " आत्मनेपदी । पश्चाद् बलते इति पश्चाद्वलः स चासौ उद्बलः अधिकवीर्यः चलन् यस्तुरगः तेन प्रणुन्नः प्रेरितः ।
३ 'गुहा - ' गुहावत् गृहाणि गुहागृहाणि । यद्वा 'गुहा' इति भिन्नपदम् ।
४ ' - उरगाशन- ' गरुडध्वजेन उच्चचूलम् ।
५ 'ऐरावतीम्' ऐरावतो हस्तिमल्लः तत्संबन्धिनीं शरीरकान्तिम् । पक्षे खल्परुचिम् । घनपक्षे ऐरावतीं विद्युतम् ।
६ 'शुचि - ' "शुचिः शुद्धे सितेऽनले । ग्रीष्मा -ऽऽषाढानुपहतेधूपधाशुद्धमन्त्रिणि शृङ्गारे च" इति अनेकार्थः [ है ० अने० सं० कां० २ श्लो० ५९]
1 मा० पं० स० श्लो० १० चतुर्थः पादः चतुर्थत्वेन । माघे 'पुलायितेन' इति मेदः ।
पुला नाम उताद्यनेकापरनामा हयानां गतिविशेषः । तदुक्तं हयलीलावल्याम्
"तां लवङ्गितामाहुर्या धारा पुलनाभिधा । पुनरेनी रलोपान्तां पुलामित्याह देशिकः ॥ तल्लक्षणं च तत्रैवोक्तम्
क्षिपति समविशेषानुत्क्षिपत्यप्रपादान्
प्रसरति पुरतोऽश्वः साधु धारा पुलाख्या । विलसति समपादोत्क्षेपणाकुञ्चनानां
करुणमिह गतिज्ञाः प्राहुरन्ये पुलाख्याम्" ॥ इत्यादि हयगतिसंबन्धि सविस्तरं वर्णनं माघस्य महिनाथी टीकातोऽवगन्तव्यम् ।
७- एनम् -' एनं गुरुं वीक्ष्य कोऽपि जनः परत्र 'गतम्' गमनं नाभ्युपैति स्म ।
८ ' - आश्रयमना' आश्रये मनो यस्य स आश्रयमनाः । ९ ' ज्येष्ठ - ' चतुर्मासके ।
१० - क्षण - "क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे | व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः " इति अनेकार्थः [ है -- अने० सं० कां० २ श्लो० १३३]
११ 'देशा-' देशनाम दक्षिणा इति सत्यं कुर्वन्तः ।
१२ ' - दानकल्पैः' अर्थिजनेषु कल्पितः कृतः दानकल्पो दानविधिर्यैस्ते-तैः ।
१३ ‘सह’ इवार्थे ।
2 मा० पं० स० छो० ११ चतुर्थः पादः चतुर्थतया । माघे 'मुखमतुत्थयदुत्थितो -' इति मेदः । अत्र 'च्छ' - 'त्थ' कारयोः लिपिसाम्यमेव पाठभेदनिबन्धनम् । लिखितप्रतौ तु 'अतुच्छयत्' इति स्पष्टं वाच्यते । आचार्यहेमचन्द्रस्तु एनमेव पादं खीये धातुपारायणे ( पृ० २८८ ) “पांशुर्दिशां मुखमतुत्थय दुत्थितोऽद्रेः” इत्येव निर्दिशति, अतोऽवगम्यते यत् 'अतुत्थयत्' इति साधुतरम् । लिपिकारप्रमादाच 'अतुच्छयत्' इति जातम् । " तुत्थ आच्छादने इति चौरादिको धातुः ” – महिनाथटीका ।
3 मा० पं० स० श्लो० 4 मा० पं० स० श्लो० 5 मा० पं० स० को ० 6 मा० पं० स० श्लो०
7 मा० पं० स०
०
१२ चतुर्थः पादः चतुर्थतया । १३ चतुर्थः पादः चतुर्थतया । १४ चतुर्थः पादः चतुर्थतया । १५ चतुर्थः पादः चतुर्थतया । १६ चतुर्थः पादः चतुर्थतया ।