________________
5
10
15
४६
देवानन्दमहाकाव्यम् ।
[ चतुर्थः सर्गः ]
नत्वा जनः प्रभुमिति स्तुतिमाततान देवागमेन भवतो जनता ननन्दुः । तद् वर्ण्यते किमिह यत् सरंसीष्वपीमा व्याकोशकोकनदतां दधते नलिन्यः ॥ ६० ॥ निजमण्डलाभ्युदयिनीर्घनागमे कमलाकरः सपदि दर्शनाय ते । अभिमन्त्रयत्युत तरङ्गभृद्वेयो विरुतेन वत्सलतयैत्र निम्नगाः ॥ ६१ ॥ पुरमिदमुदितेशमरुर्के कनकौधैः सारसं च मुदिते समरुकूँ । इह पाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता' ॥ ६२ ॥ पुरमुखे महिमांशुसमं हैरिचीरैः कानने च महिमासुं समम् । इह शाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥ ६३ ॥ मधुकरविपानमिता ननु मुक्तत्वा योषितोऽत्र विटपाऽनमिताः । ददृशुरनिभृतं सहसों वनराजी संश्रिता मुनिभृतं सहसा ॥ ६४ ॥ इत्थं जनैः स गणभृत् पथि वर्ण्यमानः सद्रत्नतोरणमुपाश्रयमाविवेश । पूषेव शारदघनाभ्रमदभ्रशुभ्रमूर्ध्वप्रसारित सुराधिपचापचारु ॥ ६५ ॥ स्थितवति गणपे महे महेभ्यकमलदृशो भृशमुज्जगुर्यशांसि । प्रतिदिनमधिसंस्थिता निवासान् शिखरशिलाशिखिशेखरानमुष्य' ॥ ६६ ॥ सवधूकाः सुखिनोऽस्मिन्ननवरतममं दरागंतामरसेंदृशः । तत्सेवां नाभ्यमुञ्चन्ननवरत ममन्दरागताऽरसदृशः ॥ ६७ ॥ वर्षासु नित्यनवदानजिनार्चनादेः पुण्ये प्रसर्पति महे नगरी तदाऽभात् ।
१ 'सरसी-' सरसीषु अपि इमा नलिन्यः प्रबुद्धपद्मपुष्पतां दधते ।
२ ' - वयो-' पक्षिशब्देन । 'निम्नगाः' नदीः अभिमन्त्रयति - आमन्त्रयति ।
३ 'पुरमिद-' इदं पुरं कनकौघैः कपिशम् ' -उदितेशम् -' उदितखामिकम् ।
४ ' अरुक्' रोगरहितम् ।
५ 'सारसम्' सरसः तटं रजसा कपिशम् ।
६ 'मुदिते' - हर्षिते ।
७ 'समरुकू' तुल्यकान्ति ।
८ 'पाकपिशङ्गलता' पाकेन परिपक्वतया पिशङ्गा या लता सा पाकपिशङ्गलता ।
९ 'पुरमुखम् ' - प्रतोली ।
१० 'अहिमांशुसमम्' अचन्द्रसमानम् ।
११ 'हरिचीरैः' स्वर्णवस्त्रैः ।
१२ 'कानने च महिमासु' वने उत्सवेषु समम् -सदृशं भाति ।
1 मा० च० स० श्लो० ४६ चतुर्थः पादः चतुर्थत्वेन । 2 मा० च० स० छो० ४७ चतुर्थः पादः चतुर्थत्वेन । 3 मा० च० स० श्लो० ४८ उत्तरार्धमुत्तरार्धतया । माघे
' परिपाकपिशङ्ग-' इति भेदः ।
4 पूर्ववत् ।
5 मा० च० स० लो० ४८ प्रथमः पादः प्रथमतया ।
१३ 'मधुकरविटपानमिता-' मद्यहस्तविटपान् मुक्त्वा वनराजीसंश्रिताः अमिता बढ्वः योषितः मुनिभृतं गणनाथं योषितः ददृशुः अनिभृतं यथा स्यात् तथा औत्सुक्येन - एतेन स्वैरिण्योऽपि धर्मपरा जाता इति भावः ।
१४ सहसा ' हासेन सहिता - हर्षवत्यः ।
१५ ' अमुष्य' नगरस्य
१६ 'अस्मिन् ननवरतममं' सुखिनः नराः सनारीकाः अत्र नगरे तस्य गुरोः सेवां न अभ्यमुञ्चन् । कथम् ? यथा स्यात् तथा न नवे रते रमणे ममं ममलं यत्र तत् ननवरतममम् । नञ्प्रतिरूपक 'न' इत्यव्ययेन समासः ।
१७ 'दरागता -' दरम् ईषत् आगतां प्राप्तां गुरोः सेवाम् ।
१८ ‘–अरसदृशः’ किंभूताः सुखिनः ? अरसाः अलसाः दृशो येषां ते अलसदृशः गुरुदर्शन विस्मयात् ।
१९ - अमन्दरागताऽमरस' अत एव अनवरतं नित्यम् अमन्दरागतया निबिडप्रेमभावेन अमरतुल्याः ।
6 मा० च० स० श्लो० ४९ चतुर्थः पादः चतुर्थंतया ।
7 मा० च० स० श्लो० ५० चतुर्थः पादः चतुर्थतया । माघे 'शिखरशिखाः शिखि -' इति पार्थक्यम् ।
8 मा० च० स० श्लो० ५१ समग्रः श्लोकः । माघे उत्तरार्धारम्भे 'नासेवन्ते रसवन्न' इति भेदः ।