________________
देवानन्दमहाकाव्यम् ।
[चतुर्थः सर्गः] जिगमिषुर्मुनिराडथ दक्षिणां दिशमसौ शमसौहृदभृजनैः। अनुययेऽश्वरथेन पुरःसृताववयवैरिव जङ्गमतां गतः ॥ ४३ ॥ कुशेशयैर्यत्र जलाशयोषिता मुदा रमन्ते कलंभा विकखरैः। ययौ तमध्वानमयं सुयोषितामुदारमन्ते कलभाविकखरैः ॥४४ ॥ चमूषु येषां कनकैः समन्विता मुदा रमन्ते कलभाः विकखरैः। नृपास्तमिभ्यैः पथि गीतमन्विता मुदा रमं ते कलभाविकखरैः ॥ ४५ ॥ श्रीसूरतौ नृपतिसद्मनि वार्द्धिपादे विभुं जयरमा परमाभिवत्रे । तल्लक्ष्म साम्प्रतमपि वतिराजयोऽत्र स्थानं परैरपरिभूतम[भजन्ते ॥ ४६॥ जयश्रिया भूषितमत्र देवं विनिद्रनेत्रैः प्रविलोकयन्त्यः। बभुः स्त्रियः स्मेरमणीचकैर्वा मधुव्रतवातवृतैव्रतत्यः ॥४७॥ पुरि तोषमत्र परमापुरितो जनतास्त्रिसन्ध्यमुनिराजनताः। सरसत्वमेव यदियात् सरसः पवनश्च धूतनवनीपवनः ॥४८॥ दिवसा व्यतीयुरचिरादिव सा सुषमाऽऽस यामिह दधौ सुषमा। नितरां च तां नु जनयनितरां पवनश्च धूतनवनीपवनः ॥४९॥ विद्वद्भिरागमपरैर्विवृतं कथञ्चिद् ग्रन्थं शशास भगवान् कुमतव्यपोहम् । सम्यग्गणर्षभजनस्तमधीत्य मैत्या गूढार्थमेष निधिमत्र गणं बिभर्ति ॥५०॥ सूरीशे प्रचलति दक्षिणां जनौधैः सङ्कीर्णे पथि पदवन्दनाय निन्ये । प्राणेशः कथमपि पाणिना निजस्त्रीमुत्तुङ्गस्तनभर(भङ्ग)भीरुमध्याम् ॥५१॥ पैथे जिहानः स विभुर्ददर्श वनं तताऽनेकतमालतालम् ।
10
१'कलमा-' कलभाः, करभा वा २.-उदारमन्ते' अन्ते समीपे, उदारम् अध्वानं ययौ
३ 'कलभावि- कलाः मधुराः, भविकाजाता भाविका मङ्गलशब्दाः तेषां खरैः।
४'पथि गीत-'ते नृपाः तं गुरुम् अन्विताः । किंभूतं गुरुम् ? इभ्यैः पथि मार्गे गीतं वर्णितम् ।
५'मुदा रम' हर्षेण, रमं मनोज्ञम्-जारीमङ्गलगीतरम्यम् । ६ 'कल-' कलः भावो येषु अस्ति ते कलभाविनः खार्थे के कलभाविकाः तादृक्खरैः।
७'-अमू-वतिराजयः-मुनिश्रेणयः ।
८'-वा' इवार्थे ।
९'-राजनताः' अत्र पुरि जनताः परं तोषम् आपुः। किंभूताः जनताः ? त्रिकालं सूरिं नताः ।
१. अत्र अन्योक्तिः -यत्र सरसः पवन इयात् तत्र सरसत्वमेव भवेत् ।
११ 'सुषमा' नु वितर्के इतरां नवीनाम् सुषमा जनयन् । यो सुषमा शोभां सुषमा प्रथमारकः दधौ सा सुषमा आस । १२ 'मत्याः' मत्याः निधानम् गूढार्थ बिभर्ति पुष्णाति । १३ 'पथे' 'पथ'शब्दः अकारान्तः बृहद्वृत्तौ [ सिद्धहेमचन्द्राख्यशब्दानुशासनस्य ] तद्धिते ।
1 मा० च० स० श्लो० ३२ चतुर्थः पादः चतुर्थतया। 2 मा. च० स० श्लो० ३३ तृतीयपादं विना सर्व समानम् । 3 मा० च० स० श्लो० ३३ द्वितीय-चतुर्थपादौ समस्यात्वेन ।
4 मा० च० स० श्लो० ३४ चतुर्थः पादः चतुर्थतया । माघे 'स्थानं परैरनभिभूतममूर्वहन्ति' इति भेदः । 'वहन्ति' स्थाने 'भजन्ति' इत्यपि माघपाठः । वार्द्धिपक्षैः-सागरगच्छानुयायिभिः मुनिभिः । वार्षिः-सागरः।
5 मा० च० स० श्लो० ३५ चतुर्थः पादः चतुर्थतया ।
6 मा० च० स० श्लो. ३६ चतुर्थः पादः चतुर्थतया ।
7 पूर्ववत् । आस-दिदीपे-असी दीप्तौ भौवादिक उभयपदी । लिखितादर्शे-'नवमीपवनः' इति प्रतिभाति ।
8 मा० च० स० श्लो० ३७ प्रथम-चतुर्थपादौ समस्यात्वेन । माघे 'निधिमन्त्रगणम्' इति भेदः ।।
9 मा० च० स० श्लो० ३८ चतुर्थः पादः चतुर्थतया । माघे'भरभङ्गभीरुमध्याम्' इति । अत्र आदर्श 'भङ्ग' शब्दो न लिखितः ततश्च छन्दोभङ्गो भाति, अत्र लिपिकारप्रमादः।