________________
[ चतुर्थः सर्गः ]
महोपाध्याय श्री मेघविजयविरचितं
योग्येऽत्र भृङ्गी रमते विमुक्त रसाऽऽनमत्तामरसा न मत्ता' ॥ १६ ॥ मुक्ताशया प्रावृषि कश्मलेsपि नदीप्रवाहे घनदीप्रवाहे । हंसा जहत्यत्र जलाश्रयाणां रैसा नमत्तामरसा न मत्ताः ॥ १७ ॥ यस्यां जगत्प्राणकनार्णेकार्थम् - उद्यङ्कशालासु जलाध्वनाऽऽप्तः । भूभर्तुरुद्भासितमूर्तकीर्तेर्-लीलां दधौ राजतगण्डशैलः' ॥ १८ ॥ ततश्चतुर्मासकपारणायां श्रीसिद्धशैलं शमिनामधेशाः । श्राद्धैः समृद्धैः सह सङ्घसार्थम् - आनिन्यिरे वंशकरीरनीलैः ॥ १९ ॥ निषेवते यत्र जिनेषु मुख्यं सभा सुराणां रस भासुराणाम् । नादृष्ट-दृष्टादिरिहाप्यते तत् विपन्नगानामविपन्नगानाम् ॥ २० ॥ छायां ध्रुवां यत्र करोति सान्द्रा रसालराजिः सुरसीलराजि । क्लिश्नाति नारीं न तदातपस्य विपन्नगानामविपन्नगानाम् ॥ २१ ॥ [ पाठान्तरम् ] अथाद्रिसन्धेः स्फुटिकानुबन्धे रेजेऽधिकं सङ्घनिवेशबिम्बम् । पात्रे गुणाढ्ये प्रकृतेर्यदाहुः सङ्क्रान्तिमाक्रान्तिगुणातिरेकाम्' ॥ २२ ॥ टोsपि शैलः स मुहुर्मुनीन्दोर पूर्ववद् विस्मयमाततान । क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥ २३ ॥ अत्यायतं तं सहसाधिरोढुं मत्या येतं दुश्चरितान्नितान्तम् । उत्कं धरं कश्चिदुपेत्य सूरिम्-उत्कन्धरं दारुक इत्युवाच ॥ २४ ॥
१ 'भृङ्गी' नारीमुखेभ्यः अन्यत्र भृङ्गी न रमते । किंभूता मृङ्गी ? विमुक्तानि रसेन आनमन्ति तामरसानि यया सा । मत्ता पुष्टा
२ 'नदीप्रवाहे ' मौक्तिकलोमेन हंसा जलाश्रयाणां भूमीर्न जहति । नदी श्रोतसि, घनेन मेघेन दीप्तो वाहो वहनं यत्र तस्मिन् । किंभूता हंसाः ? मत्ताः पुष्टाः ।
३ ' रसा-' भूमीः । नमन्ति तामरसानि यासु ताः । ४ - ' नाणकार्थं - ' अर्थेन नित्यसमासः ।
५ 'संघ' संघोऽत्र चतुर्वर्णः तीर्थरूपः साधु-साध्वी श्रावकश्राविका - समुदाय सार्थः तत्प्रसङ्गी अन्यलोकवर्गः ।
६ 'वंशकरीर - ' वंशः अन्वयः स एव करीरः कुम्भः तत्र नीलेः नीलरत्नतुल्यैः ।
1 मा० च० स० श्रो० १२ चतुर्थः पादः चतुर्थतया । 2 मा० च० स० श्लो० १२ चतुर्थः पादः चतुर्थतया । माघे 'मत्ता' ।
३ मा० च० स० श्लो० 4 मा० च० स० श्लो० 5 मा० च० स० श्रो० 6 पूर्ववत् ।
दे० ६
१३ चतुर्थः पादः चतुर्थतया । १४ चतुर्थः पादः चतुर्थतया । १५ चतुर्थः पादः चतुर्थतया ।
४१.
७'नादृष्ट- 'अदृष्टं वयादि । दृष्टं ख- परचक्रजं भयं न आप्यते । ८ किंभूतं भयम् ? नगानां विपत्-तरुणां पर्वतानाम् आपत् । अविपदः अदोषाः ससंपदो वा नगा द्रुमा येषु तेषाम् ।
९ 'रसाल - ' आम्रपङ्क्तिः ।
१० ' सुरसाल - ' सुरसालेन देवतरुणा राजते यः स सुरसालराट् तत्र पर्वते ।
११ 'नारी' नगानां शैलानाम् आतपस्य विपत् नारीं न क्लिश्नाति ।
१२ ' - अविपन्नगानाम्' अविपन्नं पूर्ण गानं यस्यास्ताम् ।
१३ 'अत्यायतम्' अतिदीर्घं धिया मत्या ।
१४ 'यतम्' यतं दुश्चरिताद् उपरतम् ।
१५ 'दारुक - ' दारूणि के मस्तके यस्य स भारवाही संघसारथिर्वा ।
7 मा० च० स० श्लो० १६ चतुर्थः पादः चतुर्थतया । माघे 'संक्रान्तिमाक्रान्त-' इति ।
8 मा० च० स० श्लो० १७ संपूर्णोऽयं श्लोकोऽत्र । केवलम् - 'मुनीन्दो: ' स्थाने माघे 'मुरारेः' इति पाठः ।
9 मा० च० स० श्लो० १८ चतुर्थः पादः चतुर्थतया । अन्यदपि साम्यं वर्तते ।
5
10
15