________________
देवानन्दमहाकाव्यम् ।
[चतुर्थः सर्गः] स राजिमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रैः ॥७॥ सरोजिनीपत्रलवाऽऽदरेण दृष्टोज्झिता चित्रलवा दरेण । राजी सशोभाऽजलजा-ऽऽतपनर्विहङ्गमानां जलजा-तपत्रैः ॥८॥ शिरःस्फुरत्केतुसुधाशिसिन्धून् कपोतपोतस्थितिनीलकण्ठान् । गिरिं जगाहे स गुरुर्विहारान् रुद्राननन्तानिव धारयन्तम् ॥९॥ तद्यात्रयाऽऽत्मानमसौ पवित्रम् आधाय तस्माद् विजहार सूरिः। यामस्य पश्यन् विषयप्रधानं शुचीरपः शैवलिनीर्दधानम् ॥१०॥ रामाभिरामाभिकदर्शनीयं वत्सादिवत् सादिजनैरनूनम् । शस्याँनि शस्यानि च दुष्किरात-रक्षोभिरक्षोभितमुदहन्तम् ॥ ११ ॥ लाभादिलाऽभादिह रत्नमुक्ता-राज्या सुराज्याऽऽशु तमाप येन । देवो नृदेवोऽनृतनुद् विनोदं रक्षोभिरक्षोभितमुद्वहन्तम् ॥ १२॥ तद्राजधान्यां नगरे नवीने तस्थौ गुरुयंत्र विहारपतेः। भवन्ति नैव स्तुवतां जनानाम् उच्छ्रायसौदर्यगुणा मृषोद्याः॥ १३ ॥ क्रमाद् गणिर्वीर इह प्रभूणां दृष्टया गुणोधैर्ववृधे तथालम् । यथा स्युरस्याग्रभुवां मुनीनाम्-उच्छायसौन्दर्यगुणा मृषोद्याः ॥ १४ ॥ तस्याः पुरश्चारुपयोधिवेला-दुकूलभाजस्तुलना कथं स्यात् । एकापणादेव समेत्य यस्यां जग्राह रत्नान्यमितानि लोकः ॥ १५॥ कान्ताननेभ्योऽन्यपदे सरस्या-ऽऽरमजनानां चिरमन्जनानाम् ।
10
15
१ महि उत्सववत् तुझं तानं गीतलयो यस्याः ताम् । किम्भूतानाम् ? विहंगैः पक्षिभिः मा उपमानं येषां ते-तेषाम् । महितुं पूजितुम्, जलजातानि कमलानि तेषां पत्रैः । किम्भूतैः पद्मपत्रैः? उत्-अतिशयेन पिञ्जराणि पिङ्गानि नवानि पत्राणि येषु तैः पत्रैः।
२ 'तपत्रैः' तपं तपगणं त्रायन्ते तपत्रा गुरवः तैः पक्षिणां श्रेणी दृष्टा । किंभूता ? पद्मिनीपत्रखण्डस्य आदरेण चित्ररवा नानारुता, दरेण भयेन उज्झिता । किंभूता ? आतपत्रैः छत्ररूपैः पद्मपत्रैः सशोभा सश्रीका । किंभूता ? जलजा अजलजा स्थलजा राजी।
३ 'यामस्य' यामनाम्ना राजा तस्य ।
४ 'शुचीरपः' शुचीः अपः पवित्राणि जलानि तद्रूपाः शैवलिनीः नदी:-शेवालवतीर्वा । यद्वा 'सुचीरपः' सुष्ठ चीरं श्वेतं पाति यः सुचीरपः।
५ 'रामा-' नार्यः । अभिरामा अभिकाः कामुकाः तैर्दर्शनीयम् । ६ 'वत्सादिवत्' वत्सादिदेशवत् अश्वारोहैः पूर्णम् । ७ 'शस्यानि' धान्यानि फलानि वा-उद्वहन्तम्-वाणि । ८ 'दुष्किरात-' भिल्लरूपराक्षसै अक्षोभितम् ।
'देवो नृदे-' देवः नाम्ना नृरूपेण देवः आशु तं देशम् , येन कारणेन तं देशम् आप तेन रत्नमुकाराज्या लाभात् इला भूः अभात् । किंभूता? सुराज्या । किंभूतो देवः१ अनुतनुत् असत्यवारकः।
१. 'रक्षोभि-' रक्षोभिः पिशाचदेवैः छलग्रहादिना अक्षोभितम्अनुपद्रुतम् । ११ 'मृषो-' असल्याः । १२ 'आरमज-' आ समन्तात् रमज्जनानाम्, चिरमजनानि नानानि तेषां योग्ये सरसि ।
1 मा०च०स० श्लो०६ चतुर्थः पादः चतुर्थतया । 2 मा० च० स० श्लो०६ चतुर्थः पादः चतुर्थतया ।
मा० च० स० श्लो. ७ चतुर्थः पादः चतुर्थतया । माघे 'रुद्राननेकानिव' इति भेदः।
4 मा. च. स. श्लो० ८ चतुर्थः पादः चतुर्थतया। 5 मा. च० स० श्लो. ९ चतुर्थः पादः चतुर्थतया ।
6 मा० च० स० श्लो० ९ चतुर्थः पादः चतुर्थतया ।
7 मा. च० स० श्लो. १० चतुर्थः पादः चतुर्थतया । माघे 'उच्छ्रायसौन्दर्य-' इति पाठः ।
8 मा० च० स० श्लो. १. चतुर्थः पादः चतुर्थतया । माघे 'उच्छ्राय' इति ।
9 मा. च० स० श्लो० ११ चतुर्थः पादः चतुर्थतया ।