________________
देवानन्दमहाकाव्यम् ।
[तृतीयः सर्गः] उत्तालतालीवनसम्प्रवृत्त-निर्यासपानानृपतीनिषिध्य । अन्वीयमानः सबलं गुरुस्तैर-जनप्रबोधाय भुवि व्यहार्षीत् ॥ १७ ॥ अब्धेरहम्पूर्विकया तरङ्गाः समीरसीमन्तितकेतकीकाः। नन्तुं प्रवृत्ता इव तीरदेशे प्रेम्णा व्यलोक्यन्त यतिक्षितीशैः ॥ १७१ ॥ उत्सारितैरुचतरैस्तरङ्गमुक्तामणीदेवमणीचकौघैः। आसेदिरे लावणसैन्धवीनां प्रसादनानां विधयस्तदैभिः ॥ १७२॥ वीरस्य तस्य प्रशमानुकम्पा-वबोधभत्त्यादिगुणान् निशम्य । खर्जन्मतोऽस्योडगिरे बिडौजश्-चमूचरैः कच्छभुवा प्रदेशाः ॥ १७३ ॥ सानुगच्छद्धनतूर्यनाद-स्प॰द्धतध्वानवतः पयोधेः।। सरित्प्रसङ्गैः सुभगा निगूढाश-चमूचरैः कच्छ वां प्रदेशाः ॥ १७४ ॥ लवङ्गमालाकलितावतंसाः श्रीसूरिराजानुगसङ्घलोकाः। तीर्थेषु यात्रार्चनदानकृत्यैर-बभुर्घनस्य प्रतिमल्लरूपाः ॥ १७५ ॥ सुधा इवाब्धेर्वसुधावतीर्णास्ते नालिकेरान्तरपः पिबन्तः। श्रीदेवसूरेरनुयायिभावाद् नरा धुसद्मान इव व्यराजन् ॥ १७६ ।। मुक्तावलीभूषितकण्ठदेशा लजाप्रसूनैधृतकर्णपूराः। आस्वादिताऽऽक्रमुकाः समुद्रात् प्रियौचितीः प्रापुरनङ्गवत्यः ॥ १७७ ।। विहृत्य सिन्धोः सविधे तदेवं गन्तुं प्रवृत्ता गिरिदुंर्गमीशाः। श्रुत्वान्तरे सङ्घजनस्य तस्मादभ्यागतस्य प्रतिपत्तिमापुः ॥ १७८ ॥ तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः परिविदितागमस्य सततं रहितस्य सदा शुभागमैः।
15
१-'निर्यास-' -रस२ -एभिः' गुरुभिः सेवाप्रकारा आसेदिरे प्राप्ताः । ३ 'वीरस्य तस्य जन्मतः । ४ 'स्वर' खो। ५'-उज्जगिरे' गीताः बिडोजश्चमूचरैः देवैः । ६ 'कच्छभुवाम्' कच्छनानो देशस्य भूमीनां प्रदेशाः । ७ 'कच्छभुवा' वनभूमीनाम् ।
८-घनस्य प्रति-' घनाघनः श्यामः तद्वत् लवशावतंसेः तेऽपि लोकाः श्यामतया प्रतिमल्लाः ।
९ 'लज्जा' लाजमर्यादा नाम वनस्पतिविशेषः समुद्रतीरे एव भवति ।
१. 'गिरिदुर्ग-' गिरिदुर्ग गिरिनारायणनामतीर्थम् गिरिनार इति भाषा । ११ 'शुभागमैः' शुभाः प्रशस्ताः अगमा वृक्षाः तैः ।
1 मा० तृ. स. श्लो० ८० प्रथमः पादः प्रथमतया । 2 मा० तृ० स० श्लो० ८० द्वितीयः पादः द्वितीयतया । 3 मा० तृ० स० श्लो० ८० तृतीयः पादः तृतीयतया । 4 मा० तृ० स० श्लो० ८. चतुर्थः पादः चतुर्थतया । 5 पूर्ववत् । 6 मा० तृ० स० श्लो० ८१ प्रथमः पादः प्रथमतया।
7 मा० तृ० स० श्लो०८१ द्वितीयः पादः द्वितीयतया । माघे 'नारिकेला-' इति ।
8 मा० तृ. स. श्लो० ८१ तृतीयः पादः तृतीयतया ।
9 मा० तृ० स० श्लो०८१ चतुर्थः पादः चतुर्थतया । माघे । 'प्रतिपत्तिमीयुः' इति भेदः ।