________________
३७
[तृतीयः सर्गः]
महोपाध्यायश्रीमेघविजयविरचितं देवागमे देवकपत्तनाख्यमुत्सङ्गशय्याशयमम्बुराशिः। गर्जन्मृदङ्गध्वनिसन्निधानैरनर्तयच्चञ्चलकेतुहस्तम् ॥ १६० ॥ अथाभ्युपेतं बहुबुद्धिधाम्नामुत्सङ्गशय्याशयमम्बुराशिम् । श्रीवीरशब्दाद्विजयं खशिष्यं पस्पर्श हस्ताम्बुरुहा शमीशः ॥ १६१ ॥ अदूष्यवैदुष्यधरं तमैक्ष्य स्तुवन् कलाभ्यासगुरुं तदीयम् । प्रत्युजगामेव गुरुप्रमोद-मेदखलैस्तुष्टमनास्तदङ्गैः ॥ १६२ ॥ सूरिः सरखानिव तं कलाभिस्तूर्णं प्रपूर्ण समवेक्षमाणः। सोमं प्रकृत्येव समुल्ललास प्रसारितोत्तुङ्गतरङ्गबाहुः ॥१६३ ॥ उत्सङ्गिताम्भःकणिको नभखान् इवर्षिराजोऽप्रतिबन्धचारी। वीरेण तेनान्तिषदाऽनुगम्यः सन्तापमुा द्विविधं जहार' ॥१६४॥ प्रभोः स गाम्भीर्यगुणैर्यशस्खानुदन्वतः खे दलवान् ममार्ज। अहर्निशं सेवनया रजांसि नूनं विनेयो विनयैरनूनः ॥१६५ ॥ शिष्यः प्रतीरे चरतः स विद्वानुदन्वतः खेदलवान् ममार्ज। सूरेविहारे तपतस्तपांसि बाह्यांस्तथाऽभ्यन्तरगान् विधेयः ॥१६६ ॥ स्थिते गुरौ स्थानवतः प्रसुप्ते सुप्तस्य निर्देशदिशैव मार्गम् । तस्यानुवेलं व्रजतोऽतिवेलं तपस्यतः श्रीवृधे मुमुक्षोः ॥१६७॥ अहर्निशं बोधधरस्य वैया-वृत्त्यादिकृत्येषु निदेशवृत्तेः । तस्या वेलं व्रजतोऽतिवेलँ-भीर्यासमित्यासं यशाप्रकाशः ॥ १६८॥ प्रतिस्थलं मण्डलतीर्थभावं समर्थयन्तं जलधेः समीरः। सुखः सिषेवे श्रमणाधिपं तम्-एलावनास्फालनलब्धगन्धः ॥ १६९॥
10
15
20
- १-मुत्सङ्ग-' उत्सङ्गः क्रोडः स एव शय्या तत्र स्थितम् ।
२'-धाम्नामुत्सङ्ग'-बुद्धिधाम्नां समुद्रम् । उत्सङ्गे शयो करौ उत्सङ्गशयौ, तो यस्य स्तः तद् उत्सङ्गशयि जिनबिम्बम्-तत्र आशयो यस्य सः तम्-जिनबिम्बध्यायिनम् ।
३ ख दल-' खे धने दरवान् सभयः-गतधनस्पृहः । यद्वा खे ज्ञातौ दलवान् बहुज्ञातिः इत्यर्थः ।
४ 'रजांसि' पापलक्षणानि ।
__ ५ 'विधेयः' "विधेयो विनयस्थः स्यात्" इति हैमः [ है. | अभि. कां. ३ श्लो. ९६]
६'-अनुवेलम्' ईर्यासमित्या व्रजतः।
७-'अतिवेल'-अतिबेरं शरीरातिक्रमेण तपस्यन्तम् । “बेरं शरीरम्” कोषे। [है. अने. सं. कां. २ श्लो. ४४८]
८ व्रजतः तस्य अतिवेलं समुद्रवेलातिक्रमेण तथा यशःप्रकाशः आस दिदीपे “अस गति-दीप्ति-आदानेषु" धातुः ।
९ 'सुखः' सुखयति इति सुखः । “पचाद्यच्” ।
1 पूर्ववत् ।
'खेदलवान्' इति समस्तम् । 2 पूर्ववत् । केवलम्-माघे '-राशिः' इति ।
7 पूर्ववत् । 'खेदलवान्' इति माघवत् । 3 मा० तृ० स० श्लो० ७८ तृतीयः पादः तृतीयतया ।
8 मा० तृ० स० श्लो० ७९ तृतीयः पादः तृतीयतया । माघे 4 मा० तृ० स० श्लो० ७८ चतुर्थः पादः चतुर्थतया । 'व्रजतोऽधिवेलम्' इति । 5 मा० तृ० स० श्लो० ७९ प्रथमः पादः प्रथमतया । माघे 9 पूर्ववत् । -कणको' इति ।
10 मा० तृ० स० श्लो० ७९ चतुर्थः पादः चतुर्थतया । माघे 6 मा० तृ० स० श्लो० ७९ द्वितीयः पादः द्वितीयतया । माघे । 'एलालतास्फा-' इति ।