SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायश्रीमेघविजयविरचितं hi यौवराज्यश्रियमर्हतीति श्रुत्वा गुरोर्वाचमुवाच देवी । समेsपि शिष्या उचिता हि यैर्न द्वयेऽप्यमुच्यन्त विनीतमार्गाः ॥ ७० ॥ · परस्परस्पर्द्धिपरार्द्धारूपा जितेन्द्रिया ज्ञप्तिगुरुखरूपाः । शिष्यास्तवैतेषु गुणैः प्रधानः श्रीपाठकोऽसौ कनकाभिधानः ॥ ७१ ॥ केलाः कलाः सर्वकलाङ्गनासु पौरस्त्रियो यत्र निधाय वेधाः । स्वकोश मध्यादिव तत् ततस्ता यथार्हमादाय जगत्सु युङ्क्ते ॥ ७२ ॥ स्थानेऽस्य दीक्षैव यदेतदहीं कन्यां विधातुं विदुषो न वेधाः । श्रीनिर्मितिः प्राप्तघुणक्षतैकवर्णस्वरूपाऽस्य जैरत्तरस्य ॥ ७३ ॥ शङ्के ततः किं जनरञ्जनाय श्रियं स नव्यामिव योजयित्वा । प्रत्याददानः स्वघुणप्रणीतवर्णोपमावाच्यमलं ममार्ज ॥ ७४ ॥ क्षुण्णं यदन्तःकरणेन वृक्षास्तदेव दिव्याः प्रतिसाधयन्ति । इतीव मन्ये गुरुचिन्तितोऽर्थः समर्थितः शासनदेवतोक्तैः ॥ ७५ ॥ चेतसा चिन्ति धनादि सालाः फलन्ति कल्पोपपदास्तदेव । गुरुः प्रसत्त्येह परत्र भोगानी भोगरूपान् दिशति ह्यचिन्त्यान् ॥ ७६ ॥ क्रमात् समाधेरुपरम्य सम्यक सूरेरिलादुर्गपुरि प्रवेशे । अध्यूँषुषस्तामभवन् जनस्य मनोमुदः स्वर्गसदोऽपि वन्द्याः ॥ ७७ ॥ पदप्रतिष्ठास्पद वेदिकायां विस्तारयामास जनाश्रयान्तः । स श्रेष्ठमुख्यः सहजूर्मणीभिर्याः सम्पदस्ता मनसोऽप्यगम्याः ॥ ७८ ॥ कला दधानः सकलाः स्वभाभिरुद्भासयन् सौधसिताभिराशाः । तन्मण्डपे मौक्तिकरत्नराशिश्वकार नीचैर्भगणं द्विधऽपि ॥ ७९ ॥ सुदुर्लभां सोदंरवल्लभामप्यभङ्गसौभाग्यभरेण पार्श्वात् । [ तृतीयः सर्गः ] १ 'द्वये - ' लौकिक - लोकोत्तररूपमेदात् । २ 'कला' पाठकस्य नागर्यः - प्रधानाः मुख्याः । अन्यकलास्तु ग्रामीणवनिताः ३ 'विदुषो' विदुषशब्दः औणादिकः पाण्डित्ये । ४ ' प्राप्तघुण-' प्राप्तं घुणक्षतैकवर्णखरूपं यया सा । ५ 'जरत्तरस्य' इत्यनेन जरायां शिल्पिनः शिल्पक्रियाक्षमत्वज्ञापनं घुणाक्षरन्यायसमर्थनं च । 1 मा० तृ० स० श्लो० ५७ चतुर्थः पादः चतुर्थतया । 2 मा० तृ० स० श्लो० ५८ प्रथमः पादः प्रथमतया । 3 मा० तृ० स० श्लो० ५८ द्वितीयः पादः द्वितीयतया । माघे 'विधाय' इति । 4 मा० तृ० स० श्लो० ५८ तृतीयः पादः तृतीयतया । माघे 'श्री निर्मितिप्राप्त-' इति । 5 मा० तृ० स० छो० ५८ चतुर्थः पादः चतुर्थतया । २९ ६ 'आभोग' विस्ताररूपान् । ७ 'अध्यूषुष - ' ताम् इलादुर्गनाम्ना 'ईंडर' इति प्रसिद्धां पुरीं वासेन आश्रितस्य । ८ ' वन्द्याः ' प्रशस्याः स्तवनीयाः । ९ 'द्विधाऽपि' उच्चत्वेन कान्त्या च इति द्विधा । १० 'सोदर - ' सोदरवल्लभां लक्ष्मीम् । चन्द्रपक्षे सोदरां भगिनीम्, प्रियाम् इष्टाम्- ततो विशेषणसमासः । 6 मा० तृ० स० श्लो० ५९ प्रथमः पादः प्रथमतया । 7 मा० तृ० स० श्लो० ५९ द्वितीयः पादः द्वितीयतया । माघे “–स्तदैव” इति । 8 मा० तृ० स० श्लो० ५९ तृतीयः पादः तृतीयतया । माघे 'अध्यषुषो यामभवन् जनस्य' इति । 9 मा० तृ० स० श्लो० ५९ चतुर्थः पादः चतुर्थतया । 10 मा० तृ० स० श्लो० ६० पूर्वार्ध पूर्वार्धतया । 5 10 15 20
SR No.002517
Book TitleDevananda Mahakavya
Original Sutra AuthorMeghvijay
AuthorBechardas Doshi
PublisherZZZ Unknown
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy