________________
5
10
15
20
२८
देवानन्दमहाकाव्यम् ।
[ तृतीयः सर्गः ]
क्षितिप्रतिष्ठोऽपि मुखारविन्दैधितद्युतोष्णांशुरिवाऽप्रधृष्यः । ज्वलत्तपोज्योतिरसौ समाधिं दधजिगाय सदीशतेजः ॥ ५९ ॥ तदेयुषीर्देववधूर्विलासै रागं विविक्ता इव वर्द्धयन्तीः । योगाद् गुरुं क्षोभयितुं न दक्षा बबाधिरे धीरकटाक्षलक्षाः ॥ ६० ॥ रम्भाः स्मरं भावयितुं मनोन्तर्मधुं व्यधुस्तेन मणीचकानाम् । मधूनि वक्राणि च कामिनीनामन्योन्यमामोदविवादमीयुः ॥ ६१ ॥ प्रियैः प्रियैयैर्वचसां विलासैः स्त्रियः प्रसन्ना विहिता रतान्तः । सख्याः शुकस्तान्निवदंस्तदान्ते वासित्वमाप स्फुटमङ्गनानाम् ॥ ६२ ॥ छन्नेष्वपि स्पष्टतरेषु यत्र पिकानुवादान्मणितेषु सख्यः । प्रत्यायिताः सङ्गमरङ्गसौख्यं भेजुः खयं जातफलाः कलानाम् ॥ ६३ ॥ वासांसि लज्जावधये धृतानि खच्छानि नारीकुचमण्डलेषु । करप्रयोगस्य भियेव नूनं नाविघ्नयंस्तत् प्रियदृष्टिपातान् ॥ ६४ ॥ रतप्रवृत्तौ शतधा बभूवुः क वोन्नतानां तनुभिर्निरोधः [ इति वा पाठः ] । लतामिलच्छाखिषु तत्प्रवृत्ति- हीरक्षणायेव वधूधृतानि । आकाशसाम्यं दधुरम्बराणि रतश्रमाम्भः पृषदाऽऽद्रितानि ॥ ६५ ॥ अविक्रियं चेति मधुक्रियाभिस्तमैक्ष्य रम्भाः प्रणिधानशुद्धम् । विभ्रमं विभ्रममेव जजुर्न नामतः केवलमर्थतोऽपि ॥ ६६ ॥ यस्यामर्जिह्मा महतीमपङ्कां भक्तिं वितेनुर्गणधारिणोऽपि । सूरेः क्रमाच्छासनदेवताऽऽविर्बभूव सा भक्तिवशात् सहर्षा ॥ ६७ ॥ भवादृशा ध्यानधिया वयोग सीमानमत्यांयतयोऽत्यजन्तः । स्मरन्ति मे श्रीप्रभवस्ततोऽहं धन्येति साऽऽभाष्य गुरूननंसीत् ॥ ६८ ॥ यदर्थमुद्यत्तपसा त्वयाहं स्मृता तदाज्ञापय देव ! सद्यः । जनैरजातस्खलनैर्न जातु भवादृशैर्घ्ययमिहार्थवन्ध्यम्" ॥ ६९ ॥
१- 'वधू -' २-३ द्वितीयाबहुवचनम् । देववधूः कटाक्षलक्षा बबाधिरे - उपतापाय जाता इति भावः । किम्भूताः कटाक्षलक्षाः ? धीराः अनिमेषत्वात् ।
२ 'तान्' वचोविलासान् ।
३ इतः चत्वारि अपि पदानि समस्यन्ते अधिकारबहुलानुरोधात् ।
1 मा० तृ० स० श्लो० ५२ प्रथमपादः प्रथमतया । माघे ' - रविन्दैर्' इति ।
2 मा० तृ० स० श्लो० ५३ द्वितीयपादो द्वितीयतया ।
3 मा० तृ० स० छो० ५४ उत्तरार्धमुत्तरार्धतया, केवलम् अक्षरमेदः ।
4 मा० तृ० स० श्लो० ५५ चतुर्थपादः ।
5 मा० तृ० स० श्लो० ५६ प्रथमपादः प्रथमतया ।
४- 'मजिम्हा' अवक्राः आर्जव सहिताः ।
५- 'मपङ्काम्' अपापाम् ।
६- 'विर्बभूव' प्रत्यक्षा अभूत् ।
७- 'त्यायतयो' अतिआयतयः
अतिशोभनोत्तर कालाः । " अतिरतिक्रमे च" [ ३।१।४५] इति तत्पुरुषसमासः । शोभनो राजा अतिराजा ।
८ - 'स्खलनै' - निरतीचारैः ।
6 मा० तृ० स० श्लो० ५६ द्वितीय: पादो द्वितीयतया । 7 मा० तृ० स० श्लो० ५६ तृतीयः पादः तृतीयतया ।
8 मा० तृ० स० श्लो० ५६ चतुर्थः पादः चतुर्थतया ।
9 मा० तृ० स० छो० ५७ प्रथमः पादः प्रथमतया । माघे - मपङ्काः' इति ।
10 मा० तृ० स० श्लो० ५७ द्वितीय: पादो द्वितीयतया ।
11 मा० तृ० स० श्लो० ५७ तृतीयः पादः तृतीयतया ।