________________
5
10
15
20
२६
देवानन्दमहाकाव्यम् ।
परिष्कृतत्वेन दिशः पिशङ्गीर्या कुर्वती काञ्चनभूमिभासा । दिनोदयस्य श्रियमाश्रितानां यतीश्वराणां पुरतः शशंस ॥ ३५ ॥ प्रविश्य तस्यां पुरि पौरनन्दी गणाग्रणीस्तां वसतिं पुपाव ।
निर्विदा या विदधे विधात्रा भुवो विभूषेव भुविजयाय' ॥ ३६ ॥ पुरी सनाथा प्रभुणा जनानां गतागतैर्वृद्धिमतीव चक्रे । सनेमिनीं द्वारवतीं सखीं तां छायेव या खर्जलधेर्जलेषु ॥ ३७ ॥ रथाङ्गभर्त्रेऽभिनवं वराय हरिर्यथा द्वारवतीं ससर्ज । तथैव मन्ये गुरवे ध्रुवेण विनिर्मिता नर्मवती पुरीयम् ॥ ३८ ॥ पयोधिना तुङ्गतरङ्गरङ्गच्छटो च्छलच्छङ्खकुलाकुलेन । पुरी दधौ साम्यमहो महौघे तदाभिनृत्यत्तुरगिप्रवृत्त्या ॥ ३९ ॥ निनंसया सङ्गतपौरनारीस्नानैस्तडागोऽत्र तदा तरङ्गैः । लोलैरोलद्युतिभाञ्जि मुष्णन् रत्नानि रत्नाकरतां जगाहे ॥ ४० ॥ हल्ली सकैः प्राप्त परिश्रमाणामुपेयुषीणां पुलिनेऽङ्गनानाम् । सरोऽविलम्बादिव मानमत्र विस्तारयामास तरङ्गहस्तैः' ॥ ४१ ॥ यत्सालमुत्तुङ्गतया विजेतुं शशाक न खः प्रभुवैजयन्तः । तत्र न्यवात्सीन्नरनाथमन्त्री वणिक्षु सभ्यः सहजूर्महेम्यः ॥ ४२ ॥ चतुःसमामद्विसन्धगन्धः प्राकारभित्त्या सहसा निषिद्धः । निर्गत्य यत्सौधगवाक्षमार्गे प्रांदुर्विचक्रे चरितं गृहस्य' ॥ ४३ ॥ अथान्यदासौ गुरुमाह मन्ये त्वदुद्भवादेव शिवाय देवैः । आराधितोऽद्धा मनुरप्सरोभिः प्रसादितोऽसूत कुलाग्रिमं ते " ॥ ४४ ॥ त्वत्पूर्वजाः केचिदिहैव पूर्वं जातास्त्रिवर्गाचरणैः सुरायाः । यद्योषितः स्फाटिकसौधमूर्ध्नि नभोगता देव्य इव व्यराजन् " ॥ ४५ ॥ कान्तेन्दुकान्तोपलकुट्टिमेषु त्वत्पूर्वजानामिह मन्दिरेषु ।
१ ‘अनिर्विदा' या पुरी निर्वेदः स्वावमाननम् तद्रहितेन सोत्साहेन कृता ।
२ 'भुविर्’- स्वर्ग
३ ' - नेमि - ' समासान्तविधेः अनित्यत्वाद् न कच् ।
४ - जलधेर्जलेषु' या जलधेर्जलेषु खः खर्गस्य छाया इव प्रतिबिम्बमिव अस्ति तां द्वारवतीं सखीं चक्रे लक्षणया तुल्या आसीत् ।
द्वितीयचरण
1 मा० तृ० स० श्लो० ३३ द्वितीयचरणमत्र तया । माघे ' - नवप्रभासा' इति ।
[ तृतीयः सर्गः ]
2 मा० तृ० स० लो० ३४ तृतीयचरणमत्र तृतीयचरणतया ।
3 मा० तृ० स० श्लो० ३५ चतुर्थपादः ।
4 मा० तृ० स० श्लो० ३६ प्रथमचरणमत्र प्रथमतया । 5 मा० तृ० स० श्लो० ३७ द्वितीयपादो द्वितीयतया ।
५ 'पयोधिना' समुद्रेण समम् ।
६ 'चतुःसमा’–“कर्पूरा-ऽगरु- ककोल- कुङ्कुमैस्तु चतुः समम्” ७ 'सहसा' इत्यव्ययं नानार्थे अव्ययानामनन्तार्थलात् । गन्धः कर्ता ।
८ 'आराधितोऽद्धा' देवैः आराधितः अप्सरोभिः प्रसादितः । अद्धा निश्चितम् ।
6 मा० तृ० स० श्लो० ३८ उत्तरार्धमत्र अविकलमुत्तरार्धतया, केवलं माघीय 'अवाप' स्थाने अत्र 'जगाहे' क्रिया ।
7 मा० तृ० स० श्लो० ३९ चतुर्थपादः ।
8 मा० तृ० स० श्लो० ४० प्रथमचरणमत्र प्रथमतया । माघे ' यच्च्छाल -' इति मेदः ।
9 मा० तृ० स० श्लो० ४१ द्वितीयपादो द्वितीयतया । 10 मा० तृ० स० श्लो० ४२ तृतीयपादो तृतीयतया । 11 मा० तृ० स० श्लो० ४३ चतुर्थपादः ।