________________
__10
[तृतीयः सर्गः]
महोपाध्यायश्रीमेघविजयविरचितं स सूरिराट् तामुदुवाह शोभामभ्यापतत्सादिबलान्तिकस्थः ॥ २३ ॥ विवन्दिषुः सूरिपदारविन्दं महीधवः सैन्धवमारुरोह।। महारथः पुष्यरथं रथाङ्गी साक्षादिवोक्षाणमिव त्रिनेत्रः ॥ २४ ॥ नृपेऽधिरूढे क्रमतः प्लुतानि चकार धाराचतुरस्तुरङ्गः। सव्याक्षिदृष्टो हरिणा विहायस्तलं विविक्षन्निव पन्नगारिः ॥२५॥ यियासतस्तस्य महीध्ररन्ध्रभिदां पटीयान् पटहप्रणादः । गन्धर्वराजामधिमण्डलाङ्क प्रोत्साहयामास नटप्रवृत्तिम् ॥ २६ ॥ अजन्यजयं नृपवाजिराजां धो धरित्र्याः फणिना ततोऽधः। तत्क्लान्तिमेते चलपुच्छवातैरुत्क्षिप्य पांशुं शमयाम्बभूवुः ॥२७॥ गजैः सवीतैस्तुरगैर्विनीतैर्युतानि संसक्तभटाध्युतानि । क्रियाफलानीव सुनीतिभा बलानि भूनायकमन्वयुस्तम् ॥ २८ ॥ जनैरहपूर्विका प्रणुनधुरीणभावात् पतिते सुवर्णे। पिष्टेऽरिणां रेणुकणाः सुवर्णक्षोदद्युतश्चक्षुदिरे रथौधैः ॥ २९॥ न लङ्घयामास महाजनानां शिरांसि रेणुः करिणां मदाः। यतीशितुः किन्तु पदप्रसादाद् धरातलस्योभुषणं शशंस ॥३०॥ नतत्रिंकोत्साहरसेन वाहा मुहुर्यदुञ्चिक्षिपुरग्रपादौ । विरेजुरुच्चैःश्रवसं तदुचैर्विजेतुकामा इव सम्मुखीने ॥ ३१ ॥ क्रमात् पुरानिर्मितसख्यसौख्यान सह प्रवृद्धान् भुवनप्रसिद्धान् । प्रक्रीडितान् रेणुभिरेत्य तूर्णं ननाम सूरीनवनीदिनेशः ॥ ३२॥ चतुर्विधः सङ्घजनोऽप्यनंसीदपूर्ववत् तानपि पूर्वदृष्टान् । अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति" ॥ ३३ ॥ उपयुषो वम निरन्तराभिरस्तोकलोकस्य नतिक्रियाभिः।
प्रतीक्ष्यमाणोऽथ गुरुः सुधर्मलाभाशिषा पूर्जनमभ्यनन्दत् ॥ ३४ ॥ १ 'सैन्धव-' अत्राय भावः-पूर्व राजा गजेऽधिरूढः पश्चात् निषादिनां पादकर्म यतं वीतं तु तद् द्वयम्" ॥ इति कोषः । श्रीगुरौ दूराद् दृष्टे विनयाद् अश्वेऽधिरूढः ।
६ 'अरिणा' चक्रेण । २ रथाङ्गी' चक्री।
७-'दुषणं' रोमोद्गमम् । ३ 'गन्धर्वराजाम्' अश्वरत्नानाम् ।
८'-त्रिको- "अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम्" । ४ 'अजर्यम्' सौहार्दम्-अजनि ।
९ 'सह' इति सर्वत्र योगः-सह प्रवृद्धान्, सह भुवनप्रसि५-'वीतै'-"यातमङ्कुशवारणम् ।
द्धान् , सह रेणुप्रक्रीडितान् ।।
15
20
1 मा० तृ० स० श्लो० २१ द्वितीयपादो द्वितीयतया। 2 मा० तृ० स० श्लो० २२ तृतीयपादोऽत्र तृतीयतया । 3 मा० तृ० स० श्लो. २३ चतुर्थपादः ।
4 मा० तृ० स० श्लो. २४ अविकलं पूर्वाधं पूर्वार्धतया माघे '-रन्ध्रभिदापटीयान्' इति भेदः ।
5 मा० तृ० स० श्लो० २५ द्वितीयपादोऽत्र द्वितीयतया ।
6 मा० तृ० स० श्लो० २६ तृतीयचरणमविकलं तृतीयचरणतया, चतुर्थं तु माघे 'सैन्यानि सोमान्वयमन्वयुस्तम्' इति ।
दे०४
7 मा० तृ० स० श्लो० २७ चतुर्थपादः । 8 मा० तृ० स० श्लो. २८ प्रथमपादोऽत्रापि प्रथमपादः ।
9 मा० तृ० स० श्लो. २९ द्वितीयपादो द्वितीयतया। माघे '-रग्रपादान्' इति । 10 मा० तृ० स० श्लो. ३० तृतीयचरणमत्र तृतीयतया । 11 मा० तृ. स० श्लो० ३१ उत्तरार्धमत्राविकलमुत्तरार्धतया । 12 मा० तृ० स० श्लो० ३२ प्रथमचरणमत्र प्रथमचरणतया ।