SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ [तृतीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं मृणा लसूत्रामलमन्तरेणस्थितश्चलच्चामरयोर्द्वयं सः । भेजेऽभितः पातु कसिद्धसिन्धोरभूतपूर्वां श्रियमम्बुराशेः॥३॥ चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः। नीराजनेवाऽजनि सज्जनौधैर्विनिर्मिते कर्मणि पूजनायाः ॥ ४ ॥ पदे पदे नम्रपावतंसप्रत्युप्तगारुत्मतरत्नभासा। भर्तुर्विहर्तुश्चरणाम्बुयोनेर्यवाङ्कुरश्रीरनुनीयते स्म' ॥५॥ गुरुश्चलंश्चारुचरित्रपात्रैः परीवृतो नीवृदुपासकैश्च । बंहीयसा दीप्तिवितानकेन जिगाय गङ्गाऽर्कसुताप्रसङ्गम् ॥६॥ कृपालतामङ्कुरयन् मनोन्तश्चचाल तेषामपि भूभुजां सः। यैर्वहिरूपं विदधेऽङ्गभाजां विक्षोभजामृक्लपितैरिवाऽसौ ॥७॥ उभौ यदि व्योनि पृथक्प्रवाहावमहँसिन्धोर्मिलितौ भवेताम् । तेनोपमीयेत विभोः प्रवेशे सार्थानुगाभ्युद्गतसङ्गयोगः ॥८॥ पुरः प्रवेशे दिवसस्य साक्षाद् दधे मणिर्दीधितिदीपिताशः। माङ्गल्यमुक्तास्रजि नायकत्वं मूर्ध्नि ध्वजस्यार्जुनकुम्भशोभाम् ॥९॥ मुक्तामयं पादयुगे नतानां भाति स्म दामाऽऽप्रपदीनमस्य ।। अङ्गुष्ठनिष्ठयूतमिवोर्ध्वमुच्चैः प्रेम्णा पयस्तत्परिपावनाय ॥१०॥ पुरन्दरेणापि पुरः क्षमीन्दोः कल्याणनाम्नाऽभिगमाय चक्रे । गजव्रजो राजिकुथैः पयोजैर्यमखसुश्चित्र इवोदवाहः ॥११॥ प्रसाधितस्याथ मधुद्विषोऽभूत् लक्ष्मीः सदृक्षा करिणां कुलस्य । 15 १ मृणा । लसूत्रा । आम । लम् । अन्तर-एणस्थितः । च । युगलम् । “लं लोपनम्" [एकाक्षरकोश-श्लो. २९-३१] "ला आम । रयोर्द्वयम् । अमितः। पा । कसिद्धसिन्धोः । अम्बुराशेः। लक्ष्मीः" इति च विश्वशम्भुः।। इति पदविभागः] 'अभितः' भं भयम् जातं यस्यासौ भितः-न भितः अभितः । 'पा' स्वामी। मृणा हिंसा, लम् लोपनम् , आम जगाम-प्राप । [किम्भूता 'कसिद्धसिन्धोः' कानाम्-आत्मनां सिद्धः सिन्धुः संसाररूपो मृणा ? लसूत्रा-लोपनं सूत्रं यस्याः सा-लोपनसूत्रा-लोपकारिणी यस्मात् स तस्य । सर्वसंहारिणी] "अम दम हम्म मीम गम्लं गतौ” २ अम्बुराशेः सागरपक्षस्य-[ सागरान्तमुनिशब्दप्रसिद्धस्य यथा - 'अन्तर एणस्थितः' अन्तर् चित्ते एणस्थः चन्द्रः शान्तिजिनो 'चन्द्रसागरमुनि' इत्यादिकस्य ] पा स्वामी अभूतपूर्वां श्रियम्वा जातः अस्मिन् इति एणस्थितः । अश्रियं भेजे। 'च आम रयोर्द्वयम्' आम प्राप । रयोः लयो-लक्ष्म्योः , द्वयम्- | ३ 'असौ' करवाले । . 1 मा० तृ० स०३ श्लोकः अक्षरशः अत्र न्यस्तः पदविभक्तिरन्यथा । माघे तु '-ऽभूतपूर्वी रुचमम्बुराशेः' इति भेदः । 2 मा० तृ० स० श्लोक ४, अत्र अस्य श्लोकस्य पूर्वार्ध पूर्वार्धतया उपन्यस्तम् । 3 मा० तृ• स० श्लो० ५ द्वितीयचरणमत्र द्वितीयतया। 4.मा० तु. स. वो०६, अस्य तृतीयचरणमत्र तृतीय- चरणतया। 5 मा० तृ. स. श्लो. ७ चतुर्थचरणम् । 6 मा० तृ० स० श्लो०८प्रथमपादः अत्र प्रथमपादतया । अन्यदपि साम्यं दृश्यते। 7 मा.तृ. स. श्लो०९द्वितीयचरणमत्र द्वितीयचरणतया । 8 मा० तृ० स० श्लो. १. द्वितीय-तृतीयचरणौ अत्रापि तथैव ।। 9 मा० तृ० स० श्लो. ११ चतुर्थः पादः । “-श्चित्र इवोदभारः" इति पाठमेदो माघे ।
SR No.002517
Book TitleDevananda Mahakavya
Original Sutra AuthorMeghvijay
AuthorBechardas Doshi
PublisherZZZ Unknown
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy