________________
10
प्रभावकचरिते
उक्तं चागमेसिवकेऊ सोहम्मे कुबेरदत्तो सणंकुमारम्मि। सिरिवजकुंडलो बंभलोयकप्पंमि सिरिवम्मो ॥२७॥ पाणयकप्पे मुणिसुदओं य तित्थाहिवो भवे नवमे ।
इय संखेवो भणिओ वित्थरमेयं अओ वुच्छं ॥ २८ ॥ व्यवहारी च भृगुपुरात् समुद्रदत्ताख्य आययौ तत्र ।
निःसंख्यपण्यपूरितयानं स्थानं समस्तलक्ष्मीना(णा)म् ॥ २९ ॥ नृपतिस्तेन समैक्ष्यत तदप्तिप्राभृतैर्मुदितचित्तः । दानगुणादिस्वागतकरणादेषोऽपि तमनुजग्राह ॥ ३० ॥ राज्ञः प्रसादवृद्ध्या साधोस्तदुचितविधानतश्चापि । सख्यमभूजिनधर्मे बोधश्चास्मादवनिपस्य ॥ ३१ ॥ सागरपोतेनापि च तत्रायातेन तद्वयस्येन । मैत्री राज्ञः समजनि तद्बोधसमानधर्मत्वात् ॥ ३२ ॥ अन्ते समाधिमरणात् प्राणतकल्पे नृपोऽभवद् देवः । सोऽहं तस्माच्चयुत्वा भरतक्षेत्रे नृपो जज्ञे ॥३३॥ इत्याकर्ण्य तुरङ्गः प्रभुधर्मकथा' नृपेण सोऽनुमतः । सप्तदिनान्यनशनभृत् समाहितोऽगात् सहस्रारम् ॥३४॥ तत्र पुरन्दरसामानिकता सप्तदशसागरायुरसौ । भुञ्जानोऽवधिना प्राग्भवमस्मार्षीच तत्रस्थः ॥ ३५ ॥ सार्धद्वादशकोट्यस्तेन सुवर्णस्य ववृषिरे तत्र । राजा पुरलोकश्च प्रबोधितो जैनवरधर्मे ॥ ३६ ॥ चामीकररत्नमयं श्रीमुनिसुव्रतविभोस्तदा चैत्यम् । माघस्य पूर्णिमास्यां सुकृती स स्थापयामास ॥ ३७ ।। माघस्य सितप्रतिपदि विभुरायादश्वरत्नबोधाय । तस्यैव सिताष्टम्यां तुरङ्गः सुरलोकमायासीत् ॥ ३८ ॥ इति नर्मदातटेऽभूद् भृगुकच्छेऽश्वावबोध इति नाम्ना । तीर्थ समस्ततीर्थातिशायि पुण्यं प्रवृत्तमदः ॥३९॥ श्रीसुव्रतनिर्वाणात् द्वादशसु ततः समासहस्रेषु । अधिकेषु द्वादशभिः पद्मश्चक्रीदमुद्दधे ।। ४० ॥ हरिषेणचक्रवर्ती पुनरुद्धारं चकार दशमोऽस्य । एवं च वर्षलक्षा एकादश जग्मुरभ्यधिकाः ॥ ४१॥ षण्णवतिसहस्राब्दैरुद्धारशते च तत्र जातेऽस्य । सुदर्शनाभ्युद्धारः प्रकीर्त्यते तदुत्पत्तिरथ ॥ ४२ ॥ ३. वैताठ्यपर्वतोपरि रथनूपुरचक्रवालनाम्नि पुरे।
राजा विजयरथोऽभूत् तत्कान्ता विजयमालेति ॥ ४३ ॥ विजयाथो तहुहिता तीर्थानां प्रणमनाय किल यान्ती । कुक्कुटसप्पं पुरतोऽवतीर्णमालोकयामास ॥ ४४ ॥ अशकुन' इति पत्तिजनैरुपेक्षितवती प्रहण्यमानं सा । श्रीशान्तिनाथतीर्थं गत्वा च ननाम सा भावात्॥४५।। तत्र च विद्याचारणयतिनीयतनैकनिष्ठचारित्राः । नत्वा जीववधस्योपेक्षायां सानुतापाभूत् ॥ ४६॥ तत्कर्म तनूचक्रे किञ्चिदथान्ते स्वजीवितव्यस्य । निजगृहधनमोहातध्यानान्मृत्वाभवच्छ कुनिः ॥ ४७ ॥ स व्यालो व्याधोऽभूत ततोऽन्यदा मासि भाद्रपदसंज्ञे। बहुदिनवर्षोपशमे वटवृक्षस्था च साक्षुधिता॥४८॥ सप्तापत्यनिमित्तं स्वार्थं चाहारवीक्षिका शकुनिः । व्याधस्य तस्य गेहे चश्वा जगृहे पललखण्डम् ॥४९॥-युग्मम् । उड्डीय चान्तरिक्षे गच्छन्ती प्रणिहितेषुणा तेन । श्रीसुव्रतचैत्यपुरः पतिता कण्ठागतप्राणा ॥ ५० ॥ तत्पुण्यतोऽथ भानुभूषण इति यतियुगं च तत्रागात् । कृपया ताभ्यामाश्वासिता च पानीयसंसेकात् ॥५१॥ पञ्चपरमेष्ठिमत्रं साऽश्राव्यत तत्र यामयुगलाभ्याम् । तत्तीर्थध्यानपरा परलोकं सा ततः समगात् ॥५२॥ अस्ति च सागरतीरे दक्षिणखण्डेऽथ सिंहलद्वीपः । राजाऽत्र चन्द्रशेखरनामा कामाकृतिर्जज्ञे॥५३॥
20
25
30.
1 A समानबोधत्वात् । 2 N °कर्मकथा । 3 C अवशकुन; N अपश° । 4 N पेक्षया । 5 N °दपान्ते ।