________________
६. विजयसिंहसूरिचरितम् । ६. श्रीविजयसिंहसूरिचरितम् ।
श्रीविजयसिंहसूरिर्गुटिकासिद्धः कथं पथि गिरां स्यात् । .
तुष्टा दर्शनमात्राद् यस्याम्बाऽदात् सुरी गुटिकाः ॥ १ ॥ अष्टमहासिद्धिनिधेस्तस्य वदिष्यामि कमपि वृत्तलवम् । वृद्धकृतिवचःश्रवणप्रवणप्रणिधानपरतत्रः ॥ २॥ तीर्थमश्वावबोधं श्रीमेकलकन्यकाटे जयति । तत्र गुरुरसौ समभूत् तद्वृत्तान्तोऽपि वक्तव्यः॥३॥5 कनकगिरिशिखरसोदरतुङ्गप्राकारवलयपरिकलितम् । श्रीपुरमिति नाम्नासीत् पुरा पुरं सकलपुरमुकुटः॥४॥ तस्य च बहिरुद्याने समवासार्षीद् द्वितीयजिननाथः । श्रीमानजितस्वामी तत्तीर्थ पूर्वमिति विदितम् ॥५॥ पश्चात्पुष्कलकालेऽतीते चन्द्रप्रभः प्रभुरवात्सीत् । उद्यान एतदीये नाम्ना च सरस्वतीपीठे ॥ ६॥ पुनरपि बहुकालेन क्षीणं तद् भृगुरिति प्रथितनामा । उद्दधे च महर्षिभृगुपुरमभवत् ततःप्रभृति ॥ ७॥ वंशे मेरुगिरीन्द्रे चन्द्रार्यमकिरणरजुविस्तारे । यत्कीर्तिवंशनटी नृत्यति विश्वेषु सभ्येषु ॥ ८॥ 10 स नृपतिरिह जितशत्रुः शत्रुश्रेणीपतङ्गगणदीपः।
कलिकालकलुषतामसविघटनपटुरात्मविषयोऽभूत् ॥ ९ ॥-युग्मम् । छागानां शतषट्कं त्रिन्यूनं सोऽन्यदा महीनाथः । विप्रोपदेशमासाद्य यज्ञविधये जुहाव भृशम् ॥ १० ॥ अन्त्ये दिने द्विजैस्तैरानाय्यत होतुमत्र पट्टाश्वः । रेवादर्शनतोऽस्य च पूर्वभवः 'स्मृतिपथं प्राप्तः ॥११॥ अथ मुनिसुव्रतनाथस्तं सप्तिं पूर्वजन्मसुहृदम् । ज्ञात्वा निश्येकस्यामतीत्य गव्यूतिविंशशतम् ॥ १२ ॥ 15 तस्य प्रबोधनार्थं तदा प्रतिष्ठाननामतो नगरात् । सिद्धपुरे विश्रभ्य क्षणमेकमुपाजगामात्र ॥ १३ ॥ कोरिंटकाभिधाने परिकरितस्त्रिंशता मुनिसहस्रः ।
बाह्योद्याने समवासार्षीचूतद्रुमस्याधः ॥ १४ ॥-त्रिभिर्विशेषकम् । सर्वज्ञं तं मत्वा सम्प्राप्तस्तेन वाजिना सहितः । राजा गत्वा नत्वा यज्ञफलं तदनु पप्रच्छ ॥ १५ ॥ अवदञ्च जिनाधीशः प्राणिवधात् ते भवन्ति नरकफलाः । अश्वश्च साश्रुनेत्रः प्रभुदर्शनतस्तदा जज्ञे॥१६।। 20
जिनपतिरबोधयदमुं नृपतिसमक्षं यथा शृणु तुरङ्ग ! । स्वं पूर्वभवं धीमन्नवधानपरश्च बुध्यस्व ॥ १७ ॥ ६२. प्रागत्र पुरेऽवात्सीत् समुद्रदत्ताख्यया वणिग् जैनः ।
तस्य च सागरपोतो मिथ्यादृष्टिः सुहृत् समभूत् ॥ १८ ।। जीवाहिंसामुख्ये समुद्रदत्तेन बोधितो धर्मे । स द्वादशवतधरः शनैश्च सुकृतीश्वरः' समभूत् ॥ १९ ॥ तस्य प्राकर्मवशात् क्षयनामा चान्यदाऽभवद् रोगः । निजधर्मत्यागादयमस्याभूत् तन्निजाः प्राहुः ॥ २० ॥25 तस्यापि 'भावहानिाधिनस्तस्य' संबभूव तदा । स्वकजनवचनैः को विप्रलभ्यते न चटुपटुभिर्वा ॥२१॥ पर्वण्युदगयनाख्ये क्रियमाणे लिङ्गपूरणमहे' च । आह्रियमाणेषु तथा प्राज्येष्वाज्येषु कुतपेभ्यः ॥ २२ ॥ अध्वन्युज्झिततल्लेशसंगताः किल घृतेलिमा अमिताः। किंकरपादाघातैः क्षुण्णाः स ददर्श सघृणमनाः ॥२३॥ प्रत्यावृत्तः सागरपोतः सदयो निनिन्द तं धर्मम् । निःशूकैस्तैश्च तदा स यष्टिमुष्ट्यादिभिः प्रहतः॥२४॥ आर्तध्यानान्मृत्वा तिर्यग्गतिभवशतेषु विभ्रम्य । अश्वः समभूञ्च भवानथ मे शृणु भवमहो पूर्वम् ॥२५॥30 अजनि पुरा चन्द्रपुरे श्रीवर्मा नरपतिः प्रथितकीर्तिः । आबोधिबीजलाभादहं भवे सप्तमे श्रीमान् ॥२६॥
-1A श्रुतिपथं । 2 N नास्ति 'नखा'। 3 N सुकृतेश्वरः। 4 NC धर्महानि। 5AC व्यस्तस्य । 6 N प्रलुभ्यते। 7N°पूर्णमहे। 8N तदा।